पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१८२

एतत् पृष्ठम् परिष्कृतम् अस्ति
१६१
चतुर्थः सर्गः।

चिन्तया विषयान्तराग्रहणमाह-

मनसि सन्तमिव प्रियमीक्षितुं नयनयोः स्पृहयान्तरुपेतयोः ।
ग्रहणशक्तिरभूदिदमीययोरपि न संमुखवास्तुनि वस्तुनि ॥१२॥

 मनसीति ॥ इदमीययोरेतदीययोनयनयोः संमुखे अग्रे वास्तु स्थानं यस्यैवंभूते पुरोवर्तिन्यपि वस्तुनि घटादौ ग्रहणशक्तिः ज्ञानसामर्थ्यं नाभूत् । किंभूतयोः-मनसि सन्तं स्थितं प्रियं नलमीक्षितुं स्पृहयेव वाञ्छयेवान्तर्हृदयदेशमुपेतयोः । विरहव्यथया नेत्रयोर्निम्नदेशत्वेन निःसहत्वात्पुरस्थितमपि ताभ्यां ग्रहीतुं न शक्यते । तत्रान्तरगतत्वे प्रियालोकनवाञ्छायाः कारणत्वेनोत्प्रेक्षा । इदमीययोः, त्यदादित्वादृद्धाच्छः[१]

चिन्तानुभावं रोदनं मुखानति चाह-

हृदि दमस्वसुरश्रुझरप्लुते प्रतिफलद्विरहात्तमुखानतेः ।
हृदयभाजमराजत चुम्बितुं नलमुपेत्य किलाग[२]मि तन्मुखम् ॥१३॥

 हृदीति ॥ विरहेणात्ता स्वीकृता मुखानतिर्मुखनम्रता यया तस्या दमस्वसुर्भैम्या अश्रुझरप्लुते बाष्पप्रवाहपरिपूर्णे हृदि वक्षसि प्रतिफलत्प्रतिबिम्बितं तत्तादृगाननं मुखं कर्तृ हृदयभाजं हृदयमध्यवर्तिनं नलं चुम्बितुमुपेत्य समीपं गत्वा आगमि किल आगमिष्यदिवाराजत शुशुभे । विरहवशान्मुखं नम्रं जातम्, अश्रु च निर्गतमित्यर्थः । विरहेणात्ता या मुखानतिस्तस्या हेतोः प्रतिफलदिति वा । तं नलमिति वा । आगमि । 'भविष्यति गम्यादयः' इति साधुः[३]

चिन्तानुभावं निःश्वासमाह-

सुहृदमग्निमुदञ्चयितुं स्मरं मनसि गन्धवहेन मृगीदृशः ।
अकलि निःश्वसितेन विनिर्गमानुमितनिहुतवेशनमायिता ॥१४॥

 सुहृदमिति ॥ मृगीदृशो भैम्या निःश्वसितेन निःश्वासलक्षणेन गन्धवहेन मलयानिलेन मनसि विद्यमानं सुहृदं स्मरं स्मरलक्षणमग्निमुदञ्चयितुमुत्तेजयितुं विनिर्गमेन निःसरणेनानुमितमनुमानज्ञानविषयीकृतं निह्रुतवेशनं गुप्तप्रवेशनं यस्य स चासौ मायी च तस्य भावस्तत्ता सा अकलि अङ्गीकृता । अभ्यस्तेत्यर्थः । विरहान्निःश्वासवायुर्बहिर्निःसरति, बहिर्निःसरणं चान्तःप्रवेशनं विनानुपपद्यमानं सत्तमनुमापयति । वायुना स्वमित्रस्य स्मराग्नेर्वर्धनार्थमन्तःप्रवेशः कृत इति लुप्तोत्प्रेक्षा । बाह्येन वायुनान्तःप्रविश्य निःश्वासरूपेण बहिर्निर्गतमिवेत्यर्थः । विरहवशाद्भृशनिःश्वासो जात इति भावः। अन्योऽपि मायी दुर्गमध्ये स्थितस्य मित्रस्य बहिर्निर्गमनार्थं गुप्तं प्रविशति, निर्ग-

  1. 'अत्रौत्प्रेक्षा' इति तिलकसाहित्यविद्याधयौँ।
  2. 'आगमितम्' इति पाठमाश्रित्य 'तारकादित्वादितच्' इत्युक्त्वा 'संजातागमनम्' इति व्याख्यातं जीवातौ । साहित्यविद्याधर्या अपीदं संमतम् ।
  3. 'अत्रोत्प्रेक्षातिशयोक्तिश्च' इति तिलकसाहित्यविद्याधर्यो ।