पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१८४

एतत् पृष्ठम् परिष्कृतम् अस्ति
१६३
चतुर्थ सर्गः।

 अश्रुपातमाह-

उदयति स्म तदद्भुतमालिभिर्धरणिभृद्भुवि तत्र विमृश्य यत् ।
अनुमितोऽपि च बाष्पनिरीक्षणाव्द्यभिचचार न तापकरो नलः ॥

 उदयतीति ॥ आलिभिः सखीभिस्तत्र तस्यां धरणिभृद् राजा भीमस्तस्माद्भूरुत्पत्तियस्यास्तस्यां भैम्यां विमृश्य विचार्य बाष्पनिरीक्षणादश्रुदर्शनादपि तापकरोऽनुमितो नलः यन्न व्यभिचचार तत् अव्यभिचारलक्षणमद्भुतमुदयति स्म उदितम् । अपिश्चकारार्थो वा । अकथितेऽश्रुदर्शनमात्रादेव नलविरहजनितमेवेदमिति यत्तासां निश्चयज्ञानं तदाश्चर्यमित्यर्थः । पूर्वं पाण्डुत्वादिना नलस्य तापकारित्वमनुमितम्, अश्रुदर्शनादपीति । अपिचेति समुच्चयार्थो वा । पर्वते बाष्पदर्शनाद्वह्न्यनुमितिराश्चर्यकारिणी भवति तद्वद्बाष्पदर्शनानुमितवद्नेर्यत्तापकारित्वं तदाश्चर्यम् । 'वाष्पमश्रुजलोष्मणोः' इति विश्वः । उदयति 'इ[१]गतौ' भौवादिकस्य रूपम्[२]

हृदि विदर्भभुवः प्रहरञ्शरै रतिपतिर्निषधाधिपतेः कृते । कृततदन्तरगस्वदृढव्यधः[३] फलदनीतिरमूर्छदलं खलु ॥ १९ ॥

 हृदीति ॥ रतिपतिः कामः निषधाधिपतेर्नलस्य कृते नलव्यधार्थं विदर्भभुवो भैम्या हृदि शरैः प्रहरन्प्रहारं कुर्वन्नलनिमित्तं श्गैमीं पीडयन्स्वयमेवालमत्यर्थममूर्छत् मूर्छीं प्राप । यतः किंभूतः-कृतः तदन्तरगस्य भैमीहृदयमध्यवर्तिनः स्वस्यात्मनो दृढो व्यधस्ताडनं येन सः खलु एवंविध इव । अत एव फलन्ती फलदा अनीतिर्यस्य । कामो नलश्च भैम्या हृदयवर्तिनौ, कामश्च स्ववैरिणो नलस्य प्रहारं कुर्वन्भैमीहृदयं प्रहृतवान् । ततश्चात्मानमेव प्रहृतवान्न नलम् । योद्धा ह्यात्मानं रक्षित्वा परं प्रहरति, अनेन तु नलार्थं भैमीहृदयं प्रहृतम्, तेन फलदनीतिना स्वयमेव मूर्छितम् । अथ मदनो मूर्छया अधिकीभवंत्तामतितरां पीडयति स्मेति भावः । 'नलव्यधलक्षणा नीतिः फलदेति वा । अन्यवधार्थमन्यस्य प्रहार इत्यनीतिः । 'मूर्छा मोहसमुच्छ्राययोः । कृते तादर्थ्ये विभक्तिप्रतिरूपकमव्य[४]यम् ॥

 शङ्कामाह-

विधुरमानि तया यदि भानुमान्कथमहो स तु तद्धदयं तथा।
अपि वियोगभरास्फुटनस्फुटीकृतदृषत्त्वमजिज्वलदंशुभिः ॥२०॥

 विधुरिति ॥ तया भैम्या विधुश्चन्द्रो यदि भानुमान्सूर्योऽमानि दाहकत्वाच्चन्द्र एव


  1. 'अय गतौ' इति धातोः' इति । जीवातुस्तु 'अनुदात्तेत्त्वलक्षणमात्मनेपदमनित्यम्' इति परिभाषामाश्रित्य।
  2. 'अत्र श्लेषव्यतिरेकावलंकारौ' इति तिलकसाहित्यविद्याधर्यौ ।
  3. 'कुत्रचिद् व्यथ' इति पाठः इति तिलकव्याख्या ।
  4. 'अत्रोत्प्रेक्षाश्लेषालंकारः' इति तिलकसाहित्यविद्याधर्यै । 'अत्र भेदेन मूर्छालक्षणकार्यदर्शनाद्रतिपतेः स्वस्यापि प्रहार उत्प्रेक्ष्यते । सा च श्लेषमूलातिशयोक्त्युत्थापितेति संकरः । व्यञ्जकाप्रयोगाद्गम्या । परप्रहारोद्यतस्य स्वप्रहाररूपानर्थोत्पत्तेर्विषमभेदश्च व्यज्यते' इति जीवातुः।