यान्प्राणान्प्रशमनायोद्भटाय यमाय तृणतुल्यान्कृत्वा त्यक्तुमैच्छत् । एतच्च दुःसहत्वज्ञानेन विना न घदते । विरहस्याग्निवद्दुःसहत्वं जातमिति भावः । 'शमनो यमराज्यमः' इत्य[१]मरः ॥
प्रकृतिरेतु गुणः स न योषितां कथमिमां हृदयं मृदु नाम यत् । |
प्रकृतिरिति ॥ नाम प्रसिद्धौ । योषितां हृदयमन्तःकरणं मृदु कोमलमिति यत् प्रकृतिः स्त्रीणां स्वाभाविको गुणः, इमां भैमीं कथं कुतो नैतु न प्राप्नोतु, अपि तु प्राप्तः । इमां प्राप्त इत्यस्मिन्नर्थे प्रमाणमाह-विबुधेन देवेन, विदुषा च मनोभुवा कामेन कुसुमैरपि पुष्परूपैरपीषुभिर्बाणैर्हृदयं दुन्वता पीडयता सता तन्मृदुत्वलक्षणं प्रमेयं सुविवृतं सुतरां स्पष्टीकृतम् । यदि स गुणो न स्यात्तर्हि पुष्पबाणैः पीडा न स्यात् । सा तु जाता । तस्मात्स गुणः समायात इति सुतरां मदनबाणैः पीडितेति भावः । दुर्बोधं प्रमेयं विदुषा विव्रि[२]यते ॥
निर्वेदानुभावं बहिरनिर्गममाह--
रिपुतरा भवनादविनिर्यतीं विधुरुचिर्गृहजालबिलैर्नुताम् । |
रिपुतरेति ॥ विधुरुचिश्चन्द्रकान्तिः भवनाद्गृहादविनिर्यतीं बहिरनिर्गच्छतीं तां भैमीं ज्वरयितुं संतापयितुं गृहजालविलैर्गृहगवाक्षच्छिद्रैरविशत् । किंभूता-यतो रिपुतरा विरहित्वादतिवैरिणी । तथा-बिशवेशधरा बिशरूपधारिणी । बिशरूपधारित्वे हेतु-माह-इतरथान्यथा आत्मनिवारणशङ्कया आत्मनिषेधभिया। वैरिण्या चन्द्रदीप्त्या वैरिणी भैमी वध्या, सा च तद्भिया बहिर्न निर्गच्छति । अतः पद्मदण्डसमाना चन्द्रदीप्तिस्तां हन्तुं संतापशान्त्यर्थ शरीरस्थापितानां बिसानां रूपेण जालमार्गेणान्तरेव प्रविष्टा। वैरिणो मुख्यमार्गेण प्रवेशाभावाद्गवाक्षरेव प्रविष्टा न तु स्वरूपेण । अन्तर्गतवैरिमारणार्थमियमेव रीतिरन्येनाप्यनुष्ठीयते । अविनिर्यतीति इणः शतरि रूपम्[४] ॥
अतिरिक्तां भृशानतिमाह-
हृदि विदर्भभुवोऽश्रुभृति स्फुटं विनमदास्यतया प्रतिबिम्बितम् । |
हृदीति ॥ मनोभुवा कामेन तदुपमाकुसुमानि मुखनयनोष्ठोपमायोग्यानि कुसुमानि कमलनीलोत्पलबन्धूकानि अखिलाः शराः पूर्वोक्तकुसुमरूपाः पञ्चापि बाणा अश्रुभृति
- ↑ 'अत्रानुमानातिशयोक्तिरलंकारः' इति साहित्यविद्याधरी । 'अत्रानुमानातिशयोक्तिविरोधालंकारसंकरः' इति तिलकव्याख्या ।
- ↑ 'अत्रानुमानालंकारः' इति तिलकव्याख्या। 'अनुमानं श्लेषश्च' इति साहित्यविद्याधरी ।
- ↑ 'मुनय इव बिसादना हंसाः' इति दमयन्तीश्लेषात् 'मृणाले तु बिसं विशम्' इति द्विरूपकोषाद्दन्त्यसकारवदपि 'बिसम्'।
- ↑ 'अत्र सद्भावोत्प्रेक्षा समासोक्तिश्च' इति साहित्यविद्याधरी।