पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१८७

एतत् पृष्ठम् परिष्कृतम् अस्ति
१६६
नैषधीयचरिते

अश्रुपूर्णे विदर्भभुवो भैम्या हृदि दुःखवशाद्विनमदास्यतया नम्रमुखत्वेन प्रतिविम्बितं प्रतिफलितं मुखदृगोष्ठमेव अरोपि समारोपितं, स्फुटमुत्प्रेक्षते । प्रकटं प्रतिबिम्बितमिति वा । प्रतिबिम्बितं भैमीमुखदृगोष्टमेव भैमीवधार्थं कामेन पञ्चापि बाणाः प्रायेण समारोपिता इत्यर्थः । पीडावशादश्रु, नम्रमुखत्वं च तस्या जातमिति भावः । मुखदृगोष्ठम् शरा इति व्यस्तरूपकम् । प्राण्यङ्गत्वादेकवद्भावः[१]

विरहपाण्डुकपोलतले विधुर्व्यधित भीमभुवः प्रतिबिम्बितः ।
अनुपलक्ष्यसितांशुतया मुखं निजसखं सुखमङ्कमृगार्पणात ॥२६॥

 विरहेति ॥ विधुश्चन्द्रः भीमभुवो भैम्या विरहेण पाण्डुनि कपोलतले प्रतिबिम्बितः सन् भैमीमुखमङ्कमृगस्य कलङ्कमृगस्यार्पणादङ्के मुखमध्ये वा मृगस्यारोपणात्सुखमनायासेन निजसखं स्वीयं मित्रं व्यधित चकार। कया-अनुपलक्ष्याः विवेकेन ज्ञातुमयोग्याः सिता अंशवः किरणा यस्य चन्द्रस्य तस्य भावस्तत्ता तया । चन्द्रकपोलयोः पाण्डुत्वात्प्रतिबिम्बितस्यापि चन्द्रस्यानुपलब्धिः। कलङ्कस्य श्यामत्वादुपलब्धिः । ततश्च मृगाङ्कलाभाद्वदनस्य निजमित्रत्वं युक्तमित्यर्थः । सवर्णे स्थितं सवर्णं शङ्खदुग्धादिवन्न लक्ष्यते । विरहात्पूर्वं मुखस्य गौरत्वात्प्रतिबिम्बितश्चन्द्रः पृथग्लश्यते स्म, विरहे तु पाण्डुनि मुखे सवर्णत्वाक्चन्द्रो न दृश्यते । अतो भैमीमुखं चन्द्र एवेति सर्वस्यापि प्रतीतिरभूत् । पूर्वमतिचन्द्रं मुखमासीत्, अधुना तु चन्द्रतुल्यं पाण्डुरं जातमिति भावः। अन्येन चतुरेण किंचिदुत्कृष्टं वस्तु दत्त्वा सख्यं संपादनीयमित्युक्तिः। दुष्टो निर्दोषेऽपि स्वसंसर्गिणि स्वदोषं संक्रमय्य साम्यं करोति । निजसखम्, 'राजाहः-' इति टच्[२]

विरहतापिनि चन्दनपांशुभिर्वपुषि सार्पितपाण्डिममण्डना।
विषधराभबिसाभरणा दधे रतिपतिं प्रति शंभुबिभीषिकाम् ॥२७॥

 विरहेति ॥ सा भैमी रतिपतिं कामं प्रति शंभुसंबन्धिनी बिभीषिकां भयानकतां दधेऽङ्गीकृतवती । किंभूता-विरहतापिनि विरहसंतप्ते वपुषि संतापेन शुष्कत्वाच्चन्दनपांशुभिश्चन्दनरजोभिरर्पितं विरचितं पाण्डिमा पाण्डुरत्वमेव मण्डनमलंकारो यस्याः सा। तथा-दैर्ध्याच्छुष्कत्वाच्च विषधराभानि वासुक्यादिसर्पतुल्यानि बिसाभरणानि बिसालंकरणानि यस्याः सा । भस्मपाण्डुरं सा(सर्पा)लंकरणं मदीयं वपुर्दृष्ट्वा शंभुभ्रान्त्या भीतः कामो मां न पीडयिष्यतीति बुद्धा चन्दनबिसानि धृतानीति भा[३]वः ॥

विनिहितं परितापिनि चन्दनं हृदि तया धृतबुद्बुदमाबभौ ।
उपनमन्सुहृदं हृदयेशयं विधुरिवाङ्कगतोडुपरिग्रहः ॥ २६ ॥


  1. 'अत्रातिशयोक्तिः' इति साहित्यविद्याधरी ।
  2. 'उपमा' इति साहित्यविद्याधरी । 'तद्गुणश्चालंकारः । उक्तं च रुद्रटे-'यस्मिन्नेकगुणानामर्थानां योगलक्ष्यरूपाणाम् । संसर्गे नानात्वं न लक्ष्यते तद्गुणः सः' इति तिलकव्याख्या । 'अत्र चन्द्रस्य कपोलसावर्ण्येन तदेकत्वकथनात्सामान्यालंकारः । 'सामान्यं गुणसाम्येन यत्र वस्त्वन्तरैकता' इति लक्षणात्' इति जीवातुः।
  3. 'अत्रोपमालंकारः' इति साहित्यविद्याधरी । 'गम्योत्प्रेक्षा' इति जीवातुः ।