शशिमयं दहनास्त्रमुदित्वरं मनसिजस्य विमृश्य वियोगिनी । |
शशिमयमिति ॥ वियोगिनी विरहव्यथिता असौ श्गैमी मनसिजस्य कामस्य शशिमयं चन्द्रलक्षणं दहनास्त्रमाग्नेयास्त्रमुदित्वरमुद्गमनशीलं विमृश्य विचार्य झटिति शीघ्रमश्रुमिषाद्बाष्पव्याजात्तदुचितमाग्नेयास्त्रविधातसमर्थं वारुणं वरुणदैवतं प्रतिशस्त्रम् आग्नेयास्त्रशत्रुभूतमस्त्रमुपाददेऽङ्गीचकार । चन्द्रोदयेऽसह्यत्वादृशमरोदीदित्यर्थः। वारुणम् , 'सास्य देवता' इत्यण्[१] ॥
अतनुना नवमम्बुदमाम्बुदं सुतनुरस्त्रमुदस्तमवेक्ष्य सा । |
अतनुनेति ॥ सा सुतनुर्विरहवशाञ्च भैमी नवमम्बुदं मेघमेव आम्बुदं वारुणमस्त्रम् (अतनुना स्मरेण) उदस्तं स्वं प्रति क्षिप्तमवेक्ष्य दृष्ट्वा आयतस्य दीर्घस्य निःश्वसितस्य छलान्मिषादुचितमम्बुदास्त्रनिवारणसमर्थं श्वसनमस्त्रं वायव्यास्त्रममुं कामं प्रति उद्दिश्यामुञ्चत् । सुतनुत्वात्स्वस्य, अतनुत्वाद्वैरिणः किमपि कर्तुमशक्यत्वात्प्रावृट्काले नवमेघदर्शनमात्रेण दीर्घनिःश्वासं तत्याजेति भावः। योधानां जातिः वैर्यस्त्रप्लातार्थ प्रत्यस्त्रं क्षिपन्तीति[२] ॥
रतिपतिप्रहितानिलहेतितां प्रतियती सुदती मलयानिले। |
रतीति ॥ सुदती शोभनदन्ता इयं भैमी मलयानिले दक्षिणपवने रतिपतिना कामेन प्रहितानिलहतितां प्रेषितवायव्यास्त्रतां प्रतियती प्रतिजानती अयं मलयानिलो न भवति, किंतु मां प्रति कामेन क्षिप्तं वायव्यास्त्रमिति जानती तदुरुतापभयान्मदनजनितबहुसंतापभयेन तापशान्त्यर्थमेवात्ताङ्गीकृता या मृणालिका तन्मयं तद्रूपं भुजंगास्त्रमिव पन्नगास्त्रमिवाददे स्वीचकार । वसन्ते मलयानिले वाति सति संतापबाहुल्यात्तच्छान्त्यर्थमङ्गेषु मृणालानि निहितानीति भावः । पन्नगाकारत्वात्पवनाशनत्वाञ्च मृणालिकानां पन्नगास्त्र[३]त्वम् ॥
न्यधित तड्वृदि शल्यमिव द्वयं विरहितां च तथापि च जीवितम् । |
न्यधितेति ॥ रतिपतिः कामः तद्धृदि भैमीहृदये द्वयं शल्यमिव शङ्कुद्धयमिव न्यधित निक्षिप्तवान् । किं द्वयम्-विरहितां वियोगित्वं तथापि वियोगित्वे सत्येव यजीवनम् ।