पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१९२

एतत् पृष्ठम् परिष्कृतम् अस्ति
१७१
चतुर्थः सर्गः


विरहितां च जीवितं चेति वा । चावन्योन्यसमुच्चये । अथ हृदयोपरि शल्यद्वयस्थापनानन्तरं तच्छल्यद्वयं स्तनलक्षणेन बिल्वयुगेन बिल्वफलद्धयेन कृत्वा निहत्य नितरां हत्वा तद्धृदये निखातवान् । शैथिल्यनिरासाय दृढं रोपयामास किमिति वितर्कः। विरहवशात्स्वल्पकालमपि जीवनं दुःखदं जातमिति भावः । अत्रोत्तरत्र च ग्लानेरनुभावः स्फुटो ज्ञेयः॥

  अतिशरव्ययता मदनेन तां निखिलपुष्पमयस्वशरव्ययात् ।
  स्फुटमकारि फलान्यपि मुञ्चता तदुरसि स्तनतालयुगार्पणम् ॥४२॥

अतीति ॥ मदनेन तदुरसि भैमीहृदये स्तनलक्षणतालफलयुगार्पणमकारि, स्फुटमुक्तम् । किंभूतेन-तां भैमीमतिशरव्ययता अतिवेध्यं कुर्वता । तथा-पुनः वेध्यकरणादेव निखिलाः पुष्पमयाः स्वशरास्तेषां व्ययान्नाशात्फलान्यपि तां प्रति मुञ्चता। वृक्षाणामन्येषां कुसुमाभावे फलवत्त्वाभावात्तालस्य तु सुमाभावेऽपि फलवत्त्वात्तालफलद्वयस्यैव साम्यादङ्गीकृ(त)तेत्यर्थः । अन्योऽपि धानुष्को बाणव्यये पाषाणादिना वैरिणं हन्ति । अतिशरव्यं करोतीत्यर्थे 'तत्करोति-' इति ण्यन्ताच्छता। 'संनिपातलक्षणो-' इति न यलोपः॥

  अथ मुहुर्बहुनिन्दितचन्द्रया स्तुतविधुंतुदया च तया मुहुः।
  पतितया स्मरतापमये गदे निजगदेश्रुविमिश्रमुखी सखी ॥ ४३ ॥

अथेति ॥ अथ तया सखी निजगदे वक्ष्यमाणमुक्ता । किंभूतया स्मरतापमये कामजनितसंतापज्वरे पतितया निमग्नया । अत एव-मुहुर्बहुवारं नितरां वक्ष्यमाणप्रकारेण निन्दितः काममित्त्रं चन्द्रो यया । तथा-मुहुः स्तुतो विधुंतुदो राहुर्यया । किंभूता सखी-संतापविलोकनादेवाश्रुविमिश्रं बाष्पविमिश्रं मुखं यस्याः सा । अन्योऽपि रोगग्रस्तोऽसाधुं स्तौति साधुं च निन्दति । विधुतुद् इति 'विध्वरुषोस्तुद्ः'इति खशि मुम्॥

त्रिभिः श्लोकैर्विरहस्य दुःसहत्वमाह-

  नरसुराब्जभुवामिव यावता भवति यस्य युगं यदनेहसा ।
  विरहिणामपि तद्रतवद्युत्क्षणमितं न कथं गणितागमे ॥ ४४ ॥

नरेति ॥ तदितिसंबन्धाद्यदिति लभ्यते । यावता परिमाणेन यदनेहसा येषां नरसुराब्जभुवां अनेहा कालस्तेन । यद्वा येनानेहसा कालेन नरसुराब्जभुवां मनुष्याणां देवानामब्जभुवो ब्रह्मणस्तेषां मध्ये यस्य नरस्य देवस्य ब्रह्मणो वा यद्युगं भवति तन्नरसु-


१ 'अत्रोत्प्रेक्षारूपकालंकारः' इति साहित्यविद्याधरी । २ इदं च 'शरुः कोपे शरे वज्रे' इति हैमोक्तशरवाचकशरुशब्दात् 'उगवादिभ्यो यत्' इति यति निष्पन्नशरव्यशब्दाण्णिचि 'यस्य हलः' इति यलोपसंभावनायामुक्तम् । शरान् व्ययति संवृणोत्यात्मनि धारयति 'आतः' इति कः । 'संप्रसारणे यादेशे च शरव्यम्' इति मुकुटोक्तशरव्यशब्दसिद्ध्याश्रयणे तु न यलोपवारणक्लेशः । ३ 'अत्रोत्प्रेक्षारूपकम्' इति साहित्यविद्याधरी । ४ 'अत्र च्छेकानुप्रासः' इति साहित्यविद्याधरी