पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१९६

एतत् पृष्ठम् परिष्कृतम् अस्ति
१७५
चतुर्थः सर्गः

  मुखरय स्वयशोनवडिण्डिमं जलनिधेः कुलमुज्ज्वलयाधुना।
  अपि गृहाण वधूवधपौरुषं हरिणलाञ्छन मुञ्च कदर्थनाम्॥५३॥

मुखरयेति ॥ त्वं अधुनास्मिन्समये स्वयशःसंबन्धि नवं नूतनं डिण्डिमनामकं वाद्यं मुखरय वाद्य । मादृशां प्राणनाशनेन महाकीर्तिर्भविष्यतीति । स्वपितुर्जलनिधेः कुलं वंशमुज्ज्वलं कुरु । वधूवधपौरुषमपि गृहाण । जडनिधेर्वंशजातस्यैवं युक्तं, न त्वन्यस्य । अथ च सुष्टु अयशःसंबन्धि नवडिण्डिमं वादय, जलनिधेः कुलं दह । एतत्सर्वं कुरु पौरुषम् । हरिणलाञ्छन शशकलङ्क, कदर्थनां पीडां मुञ्च मा कार्षीः । पीडाया असह्यत्वाञ्झटिति मारयेत्यर्थः॥

  निशि शशिन्भज कैतवभानुतामसति भास्वति तापय पाप माम्।
  अहमहन्यवलोकयित्तास्मि ते पुनरहर्पतिनिह्नुतदर्पताम् ॥ ५४ ॥

निशीति ॥ हे शशिन्, निशि त्वं कैतवभानुतां कपटसूर्यतां भजाङ्गीकुरु । हे पाप पापरूप, भास्वति सूर्ये असत्यविद्यमाने मां तापय ज्वालय । निशि, सूर्ये चाविद्यमाने इत्युभयत्रापि योजनीयम् । एतत्सुखेन कुरु । अहं अहनि प्रभाते पुनस्ते तव अहर्पतिना सूर्येण निराकृतो दर्पो गर्वो यस्य तत्त्वमवलोकयितास्मि द्रष्टास्मि । सूर्यसमक्षं त्वयोभयमपि कर्तुं न शक्यते । तेन यद्यत्तव करिष्यते तन्मयैव द्रक्ष्यत इति लौकिक्युक्तिः। तापय, चुरादौ 'आधृषाद्वा' इत्यत्र पठितस्य 'तप दैन्ये' इत्यस्य । अवलोकयितास्मि, लुट् । अहर्पतिः, 'अहरादीनाम्-' इति रेफः॥

  शशकलङ्क भयंकर मादृशां ज्वलसि यन्निशि भूतपतिं श्रितः ।
  तदमृतस्य तवेदृशभूतताद्भुतकरी परमूर्धविधूननी ॥ ५५॥

शशेति ॥ हे शशकलङ्क, मादृशां विरहिणीनां भयंकर पीडाकर, त्वं निशि भूतपतिं पृथिव्यादिभूतानां पतिमाकाशं श्रित आश्रितवान्, श्रयितुं कृतप्रारम्भो वा सन् यज्ज्वलसि दीप्यसे तत्तस्मादमृतस्यामृतमयस्य तव ईदृशभूतता ईदृशो भूतस्तस्य भावः ज्वलनवज्जातता कान्तिमत्ता चाद्भुतकरी चमत्कारिणी । अत एव परेषां मूर्धविधूननी शिरःकम्पनकारिणी । अमृतस्य शीतलस्य दाहकत्वं न दृष्टमित्याश्चर्यम् । सकलङ्कस्य परपीडकस्यामृतरूपत्वादिकमाश्चर्यकारीति च । ईदृशं मादृशजनोद्वेजनलक्षणं प्रकारं भूतः प्राप्तस्तत्तेति वा । अथ च भूतपतिं शिवमाश्रितो यज्ज्वलसि अमृतस्य तवेदृशभूतताश्चर्यकारिणी । भूतानामस्मदादीनां पतिः पालकस्तदाश्रितस्य स्वभावतः सुधारूपस्य च यत्पीडाकरणशीलत्वं तदाश्चर्यकारि । युक्तं न भवतीत्यर्थः । अथ च भैरवरूपं महादेवमाश्रित्य यज्ज्वलद्रूपो रात्रौ भवसि तदमृतस्य जीवत एवेदृशपिशाचताश्च-


१ 'अत्र स्तुतिनिन्दा' इति साहित्यविद्याधरी । 'अत्र वधूवधस्यानिष्टत्वेनाविधेयस्य विधानात् विषं भुङ्क्ष्व इति वन्निषेधपरो विध्याभासः इष्टनिषेधाभासपराक्षेपालंकारभेदः । तथा लंकारसूत्रम्-'अनिष्टं विध्यभासश्च' इति । २ 'अत्रातिशयोक्तिः' इति साहित्यविद्याधरी