पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१९८

एतत् पृष्ठम् परिष्कृतम् अस्ति
१७७
चतुर्थः सर्गः

न्द्रदर्शनं न स्यादिति भावः । कति वेति संभावनार्थो वा वाशब्दः। वा यस्मादिति वा । सिन्धुपिबस्य, 'पाघ्रा-' इत्यनेन शः॥

  कुरु करे गुरुमेकमयोघनं बहिरतो मुकुरं च कुरुष्व मे।
  विशति तत्र यदैव विधुस्तदा सखि सुखादहितं जहि तं द्रुतम् ॥५९॥

कुर्विति ॥ हे सखि, गुरुं भारवन्तमेकमयोघनं लोहमुद्गरं करे कुरु स्थापय । इतो मद्गृहाद्बहिर्मे मुकुरं च दर्पणं कुरुष्व स्थापय । किमर्थमित्यत आह-विधुः तत्र मुकुरे यदैव प्रतिबिम्बरूपेण विशति प्रविशति तदैव सुखादनायासेनैव तमहितं चन्द्र वैरिणं द्रुतं शीघ्र जहि मारय । चूर्णीकुर्वित्यर्थः । ततः पीडाशान्तिर्भविष्यतीति भावः । उन्मादोक्तिः । 'दर्पणे मुकुरादर्शौ' इत्यमरः । अयो हन्यतेऽनेनेत्ययोघनः 'करणेयोविद्रुषु-' इत्यप्प्रत्यये घनादेशः॥

  उदर एव धृतः किमुदन्वता न विषमो वडवानलवद्विधुः ।
  विषवदुज्झितमप्यमुना न स स्मरहरः किममुं बुभुजे विभुः॥६०॥

उदर इति ॥ उदन्वता विषमो दुःसहः । अथ च विषेण मीयते समीक्रियत इति विषमः । विधुश्चन्द्रः वडवानलवदुदर एव प्रागेव किं न धृतो विक्षिप्तः । एवं कर्तुं युक्तम् । परोपतापी वडवाग्निर्लोकोपकारार्थमुदर एव धृतस्तथायमपि किमिति न धृत इति व्यतिरेके दृष्टान्तः। अन्यञ्च–अमुना समुद्रेण विषमिवोज्झितं विषादिनाशे विभुः समर्थः परोपकाराय प्रसिद्धः स स्मरहरी महादेवोऽमुं चन्द्रं किं न बुभुजे भुक्तवान् । विषं भुक्तवान् , विषवत्तमपि किमिति न भुक्तवान् । तस्माद्विषमो न, किंतु ततोऽपि विषम इति । 'उदन्वानुदधौ च' इति साधुः। बुभुजे, 'भुजोनवने' इति तङ् ॥

  असितमेकसुराशितमप्यभून्न पुनरेष विधुर्विशदं विषम् ।
  अपि निपीय सुरैर्जनितक्षयं स्वयमुदेति पुनर्नवमार्णवम् ॥ ६१ ॥

असितेति ॥ सामुद्रं विषं द्विविधम्-कृष्णं, श्वेतं च । असितं कृष्णं कालकूटाख्यं विषं आर्णवं सामुद्रमेकेन सुरेण महादेवेनाशितं भक्षितं पुनरपि नाभून्नो बभूव । एष चन्द्रः पुनर्विशदं श्वेतं सामुद्रं विषं सुरैर्देवैर्वस्वादिभिःप्रतिपदादितिथिषु निपीय निःशेषं पीत्वा जनितक्षयमपि कृतनाशमपि पुनर्नवं नूतनं स्वयमुदेति समुत्पद्यते । क्षययुक्तमपि बहुभिर्बहुधैव भक्षितमपि श्वेतं विषं पुनरुत्पद्यते। एकदैव एकेनैव भक्षितं कृष्णं विषं पुनर्नोत्पन्नम् । तस्मात्पूर्वविषात्कालकूटादप्यस्याधिक्यं दृढमित्यर्थः ॥


१ 'अत्र विरोधालंकारः' इति साहित्यविद्याधरी । 'अत्र समुद्रपायिनो दण्डापूपिकया शशिकरपानसिद्धेरर्थापत्तिरलंकारः' इति जीवातुः। २ 'अत्रानुप्रासः' इति साहित्यविद्याधरी । 'अत्र चन्द्रप्रहारादिप्रलापा मेघसंदेशादिवन्मदनोन्मादविकारः' इत्यनुसंधेयम्' इति जीवातुः। ३ 'अत्र संदेहालंकारः' इति साहित्यविद्याधरी । ४ 'अत्र व्यतिरेको विरोधश्च' इति साहित्यविद्याधरी । २३