पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१९९

एतत् पृष्ठम् परिष्कृतम् अस्ति
१७८
नैषधीयचरिते

  विरहिवर्गवधव्यसनाकुलं कलय पापमशेषकलं विधुम् ।
  सुरनिपीतसुधाकमपापकं ग्रहविदो विपरीतकथाः कथम् ॥६२॥

विरहीति ॥ हे सखि, विरहिण्यश्च विरहिणश्च विरहिणस्तेषां वर्गस्य समूहस्य वध एव व्यसनं तस्मिन्नाकुलं केनोपायेनैव ते वध्या इति चिन्ताकुलमशेषकलं परिपूर्णं विधुं परापकारित्वात्पापं पापरूपं कलय जानीहि । व्यसनेन हेतुनाऽकुलं कुलरहितं पापं जानीहि । 'कुपुत्रेण कुलं नष्टम्' इति न्यायात् । तथा सुरैर्वन्ह्यादिभिर्निपीता सुधामृतं यस्य एवंविधममावास्याचन्द्रं विरहिणामतापकारित्वादपापकं पुण्यवन्तं जानीहि । ग्रहविदो ज्योतिर्विदः कथं कुतो विपरीता कथा भाषणं सिद्धान्तो येषां पूर्णेन्दुं शुभग्रहं क्षीणं च पापग्रहं 'क्षीणेन्द्वर्कभूपुत्राः पापाः' इति न ज्ञायत इत्यर्थः । विपरीतं कथयन्तीति वा।अथ च चतुःषष्टिकलावान्स विधुः परापकारी पाप एव । विद्यारहितः परोपकारी पुण्यवानित्युक्तिः। विरहीति, 'पुमान्स्त्रिया' इत्येकशेषः । निपीतसुधाकम् , 'शेषाद्विभाषा' इति कपि 'आपोन्यतरस्याम्' इति विकल्पात्ह्रस्वत्वाभावः॥

  विरहिभिर्बहु मानमवापि यः स बहुलः खलु पक्ष इहाजनि।
  तदमितिःसकलैरपि यत्र तैर्व्यरचि सा च तिथिः किममीकृता॥६३॥

विरहिभिरिति.॥ खलूत्प्रेक्षे । विरहिभिर्यः पक्षः बहु अत्यन्तं मानं संमानमवापि प्रापितः, तत्र चन्द्रक्षयात्स पक्ष इह लोके बहुलः कृष्णपक्षोऽजनि जातः।युक्तं चैतत्-यः सपक्षो (वा) लोके बहुपूजां बहुमानं प्रमाणं च लभते स प्रवृद्धो बहुल एव भवति बहु लाति आदत्ते इति । इह बहुलपक्षे यस्यां तिथौ सकलैः समस्तैरपि तैर्विरहिभिस्तस्य बहुमानस्य अमितिरपरिमितता व्यरचि रचिता सा च सैव तिथिः अमा कृता किम् । अमावास्या कृतेत्यर्थः। अमावास्यायां सर्वथा चन्द्राभावादपरिमितो मानः कृतः, तथा च मानपरिमाणराहित्यादमा अन्वर्था जाता, नतु 'अमा सह वसतोऽस्यां सूर्याचन्द्रमसौ' इति व्युत्पत्त्येत्यर्थः। विरहिणां कृष्णपक्षः सुखदः, तत्राप्यतितराममावास्येत्यर्थः । बहुलः, 'आतोनुपसर्गे कः' । 'अमीकृता' इति पाठः क्लिष्टकल्पनयोपेक्ष्यः ।

  स्वरिपुतीक्ष्णसुदर्शनविभ्रमात्किमु विधुं ग्रसते स विधुंतुदः ।
  निपतितं वदने कथमन्यथा बलिकरम्भनिभं निजमुज्झति ॥६४॥

स्वेति ॥ स प्रसिद्धो विधुंतुदो राहुः स्वस्य रिपुर्विष्णुस्तस्य तीक्ष्णस्य सुदर्शनचक्रस्य वर्तुलत्वेन विभ्रमाद्भ्रान्तेर्विधुं ग्रसते किंस्वित् । उत्प्रेक्षा । अन्यथा चन्द्रबुद्ध्यैव चेत्खादेत तदा वदने निपतितं निजं स्वीयं स्ववशं वा बल्यर्थपूजार्थं शुभ्रत्वात्करम्भनिभं दधिभ-


१ 'ग्रहविदो विपरीतममुं कथम्' इति पाठः साहित्यविद्याधरीसंमतः। २ 'अत्रातिशयोक्तिः' इति साहित्यविद्याधरी । ३ 'किममा कृता' इति पाठष्टीकासंमतः । ४ 'अमीकृता' इति पाठे तु अनमा अमा कृता अमीकृता। अमावास्या कृतेत्यर्थः । 'अत्र च्विप्रत्ययः' इति सुखावबोधा । ५ 'अत्रोत्प्रेक्षा' इति साहित्यविद्याधरी