पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२०१

एतत् पृष्ठम् परिष्कृतम् अस्ति
१८०
नैषधीयचरिते

नलेति ॥ वाथवा रणे मृतेभिया मरणाद्भयेन दिवमाकाशमतितरामुत्पततः प्रत्युद्गच्छतः आकाश एव नलेन विमस्तकितस्य छिन्नमूर्ध्नॊ रिपोर्नलशत्रोः कबन्धगलेन अपमूर्धकलेवरकण्ठेन सह तमोग्रहशिरः राहोः शिरः तस्य कबन्धगलस्यासृग् रक्तं तेन दृढं बन्धनं यस्य एवंभूतं सत् किं न मिलति । मेलने हि वदनमध्यगते चन्द्रे राहुजठराग्नौ जीर्णेऽतितरां पीडा न भविष्यतीति भावः । आकाशे स्थितस्य राहुशिरसः कबन्धगलेन सह संबन्धार्थं भृशमुत्पतत इत्युक्तम् । दृढबन्धनमिति क्रियाविशेषणं वा । 'धृतिभिया' इति पाठे नलधारणाभियेत्यर्थः॥

  सखि जरां परिपृच्छ तमःशिरः सममसौ दधतापि कबन्धताम् ।
  मगधराजवपुर्दलयुग्मवत्किमिति न व्यतिसीव्यति केतुना ॥६९॥

सखीति ॥ हे सखि, त्वं इति जरां राक्षसीं परिपृच्छ । असौ जरा कबन्धतामपमूर्धकलेवरत्वं दधता केतुना समं सह तमःशिरोऽपि राहुशिरोऽपि मगधराजस्य जरासंधस्य वपुषः शरीरस्य दलयुग्मं खण्डयुग्मं तद्वत्किमिति कुतो हेतोर्न व्यतिसीव्यति संयोजयति । यथा मगधराजः संधितस्तथा त्वया राहुरपि संधेय इति जरां प्रति त्वया वक्तव्यम्। एकस्यैव दैत्यस्य शिरसो राहुत्वं कबन्धस्य केतुत्वम् ॥

  वद विधुंतुदमालि मदीरितैस्त्यजसि किं द्विजराजधिया रिपुम् ।
  किमु दिवं पुनरेति यदीदृशः पतित एष निषेव्य हि वारुणीम् ॥७०॥

वदेति ॥ हे आलि सखि, त्वं मदीरितैर्मद्वचनैः विधुतुदं राहुं वद-हे राहो, त्वं रिपुं चन्द्रं द्विजराजधिया ब्राह्मणबुद्ध्या त्यजसि किम् । 'ब्राह्मणो न हन्तव्यः' इति श्रुतेः। डित्थडपित्थादिवत्संज्ञामात्रेण द्विजराजो नतु ब्राह्मणत्वेनेत्यर्थः । ब्राह्मणत्वे(न्यथा)नुपपत्तिं प्रमाणयति-यदि ईदृशः श्रोत्रियो ब्राह्मणः स्यात् , तर्ह्येष वारुणीं मदिरां वरुणदिशं च निषेव्य पीत्वा प्राप्य च पतितो महापातकी अस्तं गतश्च सन् पुनर्दिवं स्वर्गमाकाशं किमु कथमेति प्राप्नोति । पतितो ब्राह्मणः स्वर्गं नैति, अयं पुनरेति । तस्मात्संज्ञामात्रेण द्विजराजो न त्वन्वर्थत्वेन । ततो हन्तव्य एवायम् । हीति स्पष्टम् ॥ द्विजमात्रोऽपि न हन्तव्य इत्यत आह-

  दहति कण्ठमयं खलु तेन किं गरुडवद्द्विजवासनयोज्झितः ।
  प्रकृतिरस्य विधुंतुद दाहिका मयि निरागसि का वद विप्रता ॥७१॥

दहतीति ॥ खलु प्रायेण अयं चन्द्रो भक्षितः सन् कण्ठं दहति मामिव तेन हेतुना द्विजवासनया ब्राह्मणबुध्या त्यक्त उज्झितः । केनेव-गरुडवत् । यथा गरुडेन निषादतां गतो विप्रो ब्राह्मणबुद्ध्या त्यक्त इति भारते, तथा त्वया किमिति त्यज्यते। हे विधुंतुद राहो, अस्य विधोः प्रकृतिः स्वभावः दाहिका नतु ब्राह्मी शक्तिः। सा तु सापराधे


१. 'अत्रोत्प्रेक्षालंकारः' इति साहित्यविद्याधरी । २ 'अत्रोपमा' इति साहित्यविद्याधरी । ३ 'अत्र समासोक्तिः' इति साहित्यविद्याधरी।