इति विधोविविधोक्तिविगर्हणा व्यवहितस्य वृथेति विमृश्य सा।
अतितरां दधती विरहज्वरं हृदयभाजमुपालभत स्मरम् ॥७४॥
इतीति ॥ सा इति विमृश्य विचार्य अतितरामत्यर्थं विरहज्वरं कामपीडां दधती हृ-
दयभाजमतिसंनिहितं सरमुपालभत निनिन्द । इतिकिम्-व्यवहितस्य दूरस्थस्य
विधोः इति विविधाभिः पूर्वोक्ताभिरुक्तिभिर्विगर्हणं निन्दनं वृथा ॥
हृदयमाश्रयसे यदि मामकं ज्वलयसीत्थमनङ्ग तदेव किम् ।
स्वयमपि क्षणदग्धनिजेन्धनः क भवितासि हताश हुताशवात् ॥७॥
हृदयमिति ॥ हे अनङ्ग काम, मामकं मदीयं हृदयं यद्याश्रयसे आश्रित्य वर्तसे,
तदाश्रयभूतं हृदयमेव इत्थमनिर्वाच्यं किं किमिति ज्वलयसि दहसि । किमिति
न दह्यामीत्यत आह-क्षणमात्रेण दग्धं निजेन्धनं हृदयलक्षणं येन स एवंविधः
अत एव आश्रयाशत्वात् हे हताश नष्टाभिलाष, हुताशवद्वह्निवत्स्वयमपि आत्मनापि
क्व भवितासि कुत्र स्थास्यसि । स्वाश्रयमपि न रक्षसि । अत्यन्त दुर्विनीतस्त्वमित्यर्थः।
आश्रयस इत्यात्मनेपदेन तवैव प्रयोजनं मदाश्रयेण सिध्यतीति सूच्यते । मामकं 'तव-
कममका-' इत्यणि ममकादेशः॥
पुरभिदा गमितस्त्वमदृश्यतां त्रिनयनत्वपरि तिशङ्कया ।
स्मर निरैष्यत२ कस्यचनापि न त्वयि किमक्षिगते नयनैस्त्रिभिः ||७६||
पुरेति ॥ पुरभिदा त्रिपुरान्तकेन त्रिनयनत्वस्य परिप्लुतिरतिव्याप्तिः, तस्याः स-
काशाच्छङ्कया सर्वोऽपि जनस्त्रिनयनोऽभूदिति भयेन त्वमदृश्यतामप्रत्यक्षत्वं गमितः
प्रापितः । मयि प्रत्यक्षे त्रिनयनत्वस्यातिव्याप्तिः कथमित्याशङ्कयाह-हे स्मर, त्वयि
अक्षिगते प्रत्यक्षे, अथ च द्वेष्ये सति कस्यचनापि कस्यापि त्रिभिर्नयनैर्न निरैष्यत निर्गम्य
न प्रादुर्भूतम् । लौकिकी चोक्तिरियम्-कश्चिद्दुष्टं दृष्ट्वा वदति-एनं दृष्ट्वाहं त्रिनेत्रो
जात इति । अत्र यथा त्रिनेत्रशब्देन कोपयुक्तत्वं लक्ष्यते । तथात्रापि सर्वेऽपि सक्रोधा
भवेयुरित्यर्थः । छलात्तु सर्वेऽपि त्रिनेत्रा भवेयुरिति मम त्रिनेत्रत्वप्रसिद्धिर्गमिष्यतीति
भयात्त्वमप्रत्यक्षत्वं गमितः । अथ च त्वदुदयाज्ज्ञानलक्षणे तृतीये नेत्रे गमिते सति अय-
मन्ध इति नेत्रत्रयस्यापि वैयर्थ्यमापद्येतेति लौकिक्युक्तिः । इति सर्वं बुद्धा त्वमप्रत्यक्ष
तां गमितः।-त्रिनयनत्वस्य परिप्लुतिर्वैयर्थ्यं तच्छङ्कया त्वयि कस्याप्यक्षिगते दृश्ये
सति त्रिभिर्नेयनैर्न व्यर्थीभूतम् , अपितु व्यर्थीभूतमेव । त्वद्दाहार्थमेव तस्य तृतीयनेत्रत्वं,
त्वददाहे व्यर्थमेव स्यादित्यर्थ इति वा । अत्रापि तृतीयनेत्रस्य वैयर्थ्येऽपि नेत्रद्वय-
स्याप्यप्रयोजकत्वाद्वैयर्थ्यं ज्ञेयम् । व्याख्यानान्तरं सुधिया बोद्धव्यम् । त्रिनयन इति,
क्षुभ्नादित्वाण्णत्वाभावः । निरैष्यत, 'ईष सर्पणे' इति भावे यगात्मनेपदम्३ ॥१ 'अत्रानुप्रासोपमा' इति साहित्यविद्याधरी । २ 'निरैक्ष्यत' इति पाठमाश्रित्य 'अविवक्षितकर्मका-
दीक्षतेर्भावे लकारः' इति जीवातावभिहितम् । ३ 'अत्रोत्प्रेक्षा' इति साहित्यविद्याधरी
।