चतुर्थः सर्गः १८३
सहचरोसि रतेरिति विश्रुतित्स्वयि वसत्यपि मे न रतिः कुतः।
अथ न संप्रति संगतिरस्ति वामनुमृता न भवन्तमियं किल॥७७॥
सहचर इति ॥ रतेः स्वप्रियायाः सहचरोऽसि तया विना एकाकी कुत्रापि न तिष्ठ-
सीति यदि विश्रुतिर्जनवादः । अथ च रतेः प्रीतेः। तर्हि त्वयि वसति विद्यमानेऽपि
मे मम रतिः प्रीतिः किमिति न चीयते । मयि त्वं वर्तसे रतिश्च नास्ति । सहचरत्वा-
दुभाभ्यामपि भाव्यम्, तस्मात्प्रसिद्धिमिथ्यैवेत्यर्थः । अथवा सांप्रतमनङ्गावस्थायां वां
युवयोः संगतिर्नास्ति, किल यस्मादियं रतिर्मृतं भवन्तमनुलक्ष्य न मृता अन्वारोहणं
न कृतवती । यतः सांप्रतं संगतिमैत्री, साहचर्यं च नास्तीति प्रसिद्धिः। त्वं रतिवियुक्तः।
विरुद्धा श्रुतिर्विश्रुतिः प्रसिद्धिरलीकैव । रतिः कामप्रियायां च रागेऽपि सुरतेऽपि च'
इति विश्वः१॥
रतिवियुक्तमनात्मपरज्ञ किं स्वमिव मामपि तापितवानसि ।
कथमतापभृतस्तव संगमादितरथा हृदयं मम दह्यते ॥ ७ ॥
रतीति ॥ हे अनात्मपरज्ञ, आत्मानं रक्ष्यं परं चारक्ष्यं न जानातीत्यनात्मपरज्ञस्तत्सं-
बुद्धिः। त्वं रतिवियुक्तां मामिव रतिवियुक्तं स्वमपि आत्मानमपि किमिति तापितवान्
दग्धवान् असि । आत्मनः प्रतिकूलं कोऽपि नाचरति, किंतु शत्रोरेव । त्वं तूभयोरित्य-
नात्मपरज्ञो भवसीत्यर्थः। एवं कुतो ज्ञातमित्यत आह–इतरथा त्वया आत्मन्यता-
पिते सति अतापभृतस्तापरहितस्य तव संगमात्संबन्धान्मम हृदयं कथं कस्मात्कार-
णाद्दह्यते संताप्यते । परापकारार्थमात्मानमपि संतापितवान् , एवंविधः परापकार-
निरतस्त्वमित्यर्थः। 'संसर्गजा दोषगुणा भवन्ति । संतप्तसंबन्धात्संतप्तत्वं युक्तम् ।
दह्यत इति, कर्मकर्तरि यक्तंङौ२ ॥
अनुममार न मार कथं नु सा रतिरतिप्रथितापि पतिव्रता।
इयदनाथवधूवधपातकी दयितयापि तयासि किमुज्झितः ॥७९॥
अन्विति ॥नुसंभावनायां संबोधने । हे मार काम, सा सती पतिव्रतात्वेनातिप्रथिता-
तिविख्यातापि रतिस्तव प्रिया मृतं त्वामनु कथं न ममार । पतिव्रतया मरणं कर्तव्य-
मिति धर्मः। 'मृते म्रियेत या पत्यौ' इत्युक्तेः। न कृतं चेत्तत्रेदं कारणम्-तया
दयितयापि इयतीनां बह्वीनामनाथानां रक्षितृरहितानां वियोगिनीनां वधेन पातकी
त्वमुज्झितस्त्यक्तोऽसि किम् । 'आशुद्धे: संप्रतीक्ष्यो हि महापातकदूषितः' इति वच-
नात् । अत एवानुमरणं न कृतमित्यर्थः । ममार, 'म्रियतेलुङ्लिङोश्च' इति नियमात्त-
ङ्ङभावः३॥१ 'अत्र विभावना हेतुश्चालंकारः' इति साहित्यविद्याधरी। २ 'अत्रोपमानुमानं चालंकारः' इति
साहित्यविद्याधरी । ३ 'अत्रातिशयोक्त्युत्प्रेक्षालंकारः' इति साहित्यविद्याधरी।