पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२०६

एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्थः सर्गः। १८५


मलिनां मद्विधां मादृशीं स्त्रियमभिभवन्पीडयन्भ्रमसि । अन्योऽपि परेतः पातकवशा- त्पिशाचः सन् वालकादीन्पीडयन्भ्राम्यतीति । त्रिभुवनापकारी त्वादशः कोऽपि ना- स्तीति भावः । 'भ्रमसि' श्यन्विकल्पः१॥ बत ददासि न मृत्युमपि स्मर स्खलति तेऽकृपया न धनुः करात् । अथ मृतोऽसि मृतेन च मुच्यते न खलु मुष्टिरुरीकृतबन्धनः॥४॥ बतेति ॥ हे स्मर, त्वं हितं न करोषि परं मृत्युमपि न ददासि बत कष्टम् । मरणे सतीयं पीडा नानुभूयेतेत्यर्थः । कृपया हेतुना ते कराद्धस्ताद्धनुर्न स्खलति न पतति । कृपया पतितुं युक्तम् । बत कष्टम्, कृपया मृत्युं न ददासि चेद्धनुः किमिति न त्यज- सीत्यर्थः । अर्थाज्जीवत एव करात्कृपया धनुः पतति, त्वं तु मृता, तस्मात्कथं पततु कृ. पाया अभावात् । अकृपयेति वा । धनुःपतनाभावे कारणमाह-अथ वा मृतोऽसि । मृ- तेन खलु निश्चितमुरीकृतमङ्गीकृतं स्वीकृतं बन्धनं येन एवंभूतो मुष्टिर्न मुच्यते । अतः कराद्धनुर्न भ्रश्यति । मुष्टिरुभयलिङ्गः । 'बन्धनं बन्धुरं च स्यादुरीकृतमुररीकृतम्' इ. त्यनेकार्थध्वनिमञ्जरी२॥ दृगुपहत्यपमृत्युविरूपताः शमयतेऽपरनिर्जरसेविता। अतिशयान्ध्यवपुःक्षतिपाण्डुताः स्मर भवन्ति भवन्तमुपासितु:। ५ दृगिति ॥ हे स्मर, त्वदन्ये ये निर्जरा देवाः सूर्यादयस्तेषां सेविता सेवकः दृगुपह- तिरान्ध्यम्, अपमृत्युरकालमरणं, विरूपता कुष्ठादिना वैरूप्यं च शमयते शान्तिं न- यति । भवन्तं कामदेवमुपासितुः सेवितुरतिशयेनान्ध्यं प्रतिपत्तिराहित्यं, नेत्रराहित्यं च वपुःक्षतिः शरीरकार्श्यम्, अकालमृत्युश्च । वपुषः पाण्डुता, विरहजनितपाण्डुरो- गश्च एते भवन्ति । सूर्यादिभक्तस्यान्यसर्वरोगोपशमने सामर्थ्यम् । स्वरोगोपशान्तौ तव सामर्थ्य नास्ति, त्वद्भक्तस्य नास्त्यत्र किं वाच्यम् । एवंविधस्त्वं देव इत्युपहासः । अप- रनिर्जरान्सेवते तच्छीलस्तस्य भावः, सा की । अन्यदेवसेवनमिति वा । अपमृत्युश्च विरूपता चेति पूर्व द्वन्द्वः कार्यः । ततः पूर्वेण । शमयते, 'णिचश्च' इति तङ्, अमन्त- त्वान्मित्त्वे ह्रस्वः । सेविता तृच् । अपरनिर्जरसेविता, अवतरत्वबोधिका इतिवत्स- मासः। द्वितीयपक्षे ताच्छील्ये णिनिः, तस्माद्भावे प्रत्ययः । अतिशयपदस्य प्रत्येकं सं- बन्धः । क्षयश्च पाण्डुता च, वपुषः क्षयपाण्डुते इति षष्ठीसमासं कृत्वा पूर्वेण समासः । अन्यथा पाण्डुताशब्दस्य पूर्वनिपातः स्यात् । उपासितुरिति तृन्नन्तयोगाद्भवन्तमिति द्वितीया३॥ स्मर नृशंसतमस्वमतो विधिः सुमनसः कृतवान्भवदायुधम् । यदि धनुर्दृढमाशुगमायसं तव सृजेत्त्रिजगत्प्रलयं व्रजेत् ॥१६॥१ 'अत्रोत्प्रेक्षालंकारः' इति साहित्यविद्याधरी । २ 'अत्रोत्प्रेक्षालंकारः' इति साहित्यविद्याधरी। ३ 'अत्र व्यतिरेकालंकारः' इति साहित्यविद्याधरी । 'अत्रानर्थोत्पत्तिलक्षणो विषमालंकारभेदः' इति जीवातुः।