पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२०७

एतत् पृष्ठम् परिष्कृतम् अस्ति
१८६
नैषधीयचरिते


स्मरेति ॥ हे स्मर, त्वं नृशंसतमोऽतिशयेन हिंस्रः अतः कारणाद्विधिः सुमनसः पु- ष्पाणि भवदायुधं कृतवान् । ब्रह्मा यदि तव धनुर्दृढं कठिनम् , आशुगं बाणमायसं लो- हमयं च सृजेत्, तर्हि त्रिजगत्प्रलयं व्रजेत् । अथ च तव दुष्टमनस्त्वाद्भवदायुधस्य सु- मनस्त्वं कृतं विधिना । 'नृशंसो घातुको हिंस्रः' इत्यमरः । हिंसार्थाच्छंसेः कर्मण्यण आयसं विकारे रजतादित्वाञ् । त्रयाणां जगतां समाहार इति द्विगोरेकवचने नपुंस- कत्वे च त्रिजगदिति साधुः१॥ स्मररिपोरिव रोपशिखी पुरां दहत्तु ते जगतामपि मा त्रयम् । इति विधिस्वदिषून्कुसुमानि किं मधुभिरन्तरसिञ्चदनिर्वृतः॥७॥ स्मररिपोरिति ॥ हे काम, ते तवापि रोपशिखी बाणाग्निः. जगतां त्रयं मा दहतु मा स्म धाक्षीदिति हेतोरनिर्वृतः सचिन्तः सन् शङ्कितो वा विधिः कुसुमानि त्वदिषून्मधु- भिर्मकरन्दैरन्तर्मध्येऽसिञ्चत्सिक्तवान्किम् । कः किमिव-स्मररिपोर्हरस्य रोपशिखी पुरां त्रयमिव । स यथा पुरां त्रयं दाह तथा तवापीति । सिक्तं वस्तु दाहसमर्थं न भवतीति भावः । मा दहतु निषेधार्थवाचिनि२रनुबन्धकमाशब्दयोगे लोट्३ ॥ विधिरनंशमभेद्यमवेक्ष्य ते जनमनः खलु लक्षमकल्पयत् । अपि स वज्रमदास्यत चेत्तदा त्वदिषुभिर्व्यदलिष्यदसावपि ॥४॥ विधिरिति । विधिः अणुपरिमाणत्वान्निरंशं निरवयवम् अत एवाभेद्यं भेत्तुमशक्यं जनमनोऽवेक्ष्य खलु निश्चितं ते लक्षं वेध्यमकल्पयद्व्यरचयत् । अपि संभावनायाम् । स वज्रमिन्द्रायुधं, हीरकं वा चेदास्यताकल्पयिष्यत्, तर्हि असावपि वज्रोऽपि त्वदि- षुभिस्त्वद्वाणैर्व्यदलिष्यद्विदीर्णोऽभविष्यदिति संभाव्यते । त्वादशो हिंस्रः कोऽपि नेत्यर्थः। क्रियातिपत्तौ लृङ् । 'वज्रोऽस्त्री हीरके पवौ' इत्यमरः४ ॥ अपि विधिः कुसुमानि तवाशुगान्स्मर विधाय न निर्वृतिमाप्तवान्। अदित पञ्च हि ते स नियम्य तांस्तदपि तैर्बत जर्जरितं जगत् ॥४९॥ अपीति ॥ हे स्मर, विधिः कुसुमानि तव आशुगान्विधायापि निर्वृतिं सुखं नाप्तवान् अतः स ब्रह्मा तान्कुसुमरूपान्बाणान्नियम्य गणयित्वा पञ्च हि पञ्चैव ते तुभ्यमदित न त्वधिकान्, तदपि तथापि तैः पञ्चसंख्याकैरपि बाणैर्जगत्रिलोकी जर्जरितं खण्डितम् । बत कष्टम् । अतिहिंस्रोऽसीति भावः५॥ १ 'अत्र हेतुरलंकारः' इति साहित्यविद्याधरी । २ 'अथ किमर्थं आङ्माङो: सानुबन्धकयोर्निर्दे- शः, आङ्माङोः सानुबन्धकयोनिर्देशः क्रियते । आङो गतिकर्मप्रवचनीयसंप्रत्ययार्थः । माङः प्रतिषेध- संप्रत्ययार्थः इह माभूतू--'आ छायामानयति, प्रमाछन्दः' इति 'आङ्माङोश्च' इति सूत्रभाष्यपर्यालोचने तु निरनुबन्धकमाशब्दस्य प्रतिषेधार्थत्वाभाव एव । तस्मात् 'तं पातयांप्रथममास' इत्यादिवन्निरङ्कुशप्रयोग एव । ३ 'अत्रोपमोत्प्रेक्षालंकार;' इति साहित्यविद्याधरी। ४ 'अत्र विरोधालंकारः' इति साहित्यविद्या-

धरी । ५ 'अत्रापि विरोधोऽलंकारः' इति साहित्यविद्याधरी।