पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२१५

एतत् पृष्ठम् परिष्कृतम् अस्ति
१९४
नैषधीयचरिते

नैषधीयचरिते = संभाव्यते । श्वसिति, 'रुदादिभ्यः-' इतीट् । कैश्यं केशसमूहः 'केशाश्वाभ्यां यच्छा- वन्यतरस्याम्' इति यञ्1॥ कलकलः स तदालिजनाननादुदलसद्विपुलस्त्वरितेरितैः । यमधिगम्य सुतालय2मीयिवान्धृ3तदरः स विदर्भपुरंदरः ॥ ११५॥ कलकल इति ॥ त्वरितेरितैः कले इत्यादिशीघ्रवचनैः विपुलो महान्स कलकलः कोलाहलः तस्या भैम्या आलिजनस्य आननादुदलसदुदभूत् । कुमार्याः किं जातमिति धृतदरो जातभयः स विदर्भपुरंदरो भीमः यं कोलाहलमधिगम्य आकर्ण्य सुतालयमी- यिवानागतवान् । त्वरितानां धावकानामीरितैर्वचनैर्यमधिगम्येति वा4 कन्यानःपुरबाधनाय यदधीकारान्न दोषा नृपं द्वौ मन्त्रिप्रवरश्च तुल्यमगदंकारश्च तावूचतुः। देवाकर्णय सुश्रुतेन चरकस्योक्तेन जानेखिलं स्यादस्या नलदं विना न दलने तापस्य कोऽपि क्षमः ॥११६॥ कन्येति ॥ तौ द्वौ तुल्यं समकालं शब्दसारूप्यात्समानं च नृपमूचतुः द्वौ कौ- मन्त्रिप्रवरश्च अगदंकारो वैद्यश्च । तौ कौ-यधीकारात्स्वाम्यान्नियोगात्पुरुषादिभ्यो वातादिरोगादिश्यश्च कन्यान्तःपुरस्य बाधनाय निन्दायै, अथ च कन्याया अन्तःपुरस्य शरीरस्य मध्ये बाधनं पीडा तस्मै दोषा न व्यभिचारादयो, वातादयो रोगाश्च न स- मर्था भवन्तीत्यर्थः । किमूचतुस्तत्राह-हे देव राजन् , आकर्णय त्वं शृणु । सुश्रुतस्य अन्तःपुरस्थादिद्वारा चर एव चरकः, तस्योक्तेन वचनेनाखिलं रहस्य जाने । किं रह- स्यम्-नलदं विना नलनामकराजप्रदं विनास्यास्तापस्य संतापस्य दलने नाशे कोऽपि क्षमः शक्तो न स्याद्भवति । इति मन्त्रिवचः । दूतमुखान्मया श्रुतम् । अस्या नलेनुरागः, तदप्राप्तिजनितोऽयमस्याः संतापः, तत्प्राप्तौ शाम्येदित्युपायं रचयेत्यर्थः । अस्यास्ता- पस्य ज्वरस्य शमने नलदमुशीरं विना कोऽपि काथादिस्तापं शमयितुं क्षमो नेति, सु- श्रुताख्यवैद्यकग्रन्थेन तथा चरकनाम्नायुर्वेदविदो वचनेन तत्प्रणीतेन ग्रन्थेन अखिलं निदानं चिकित्सां जाने इत्यगदंकारवचनम् । अथच कोऽपि ब्रह्मापि न क्षमः । आक- स्मिकशब्दश्रवणादाकुलस्य राज्ञोऽन्तःपुरे मन्त्रिवैद्ययोः प्रवेशो युक्तो भवति न काप्य- नौचिती । 'पुरं पुरि शरीरे च' इति विश्वः। कन्या, प्रथमवयोवाचित्वेऽपि 'कन्यायाः कनीन च' इति निर्देशान्डीवभावः । अधीकारात् , 'उपसर्गस्य घञ्यमनुष्ये बहुलम्' इति दीर्घ॥5 १ 'अत्रानुप्रासजात्यलंकारौं' इति साहित्यविद्याधरी। २ 'मेतवान्' इति पाठस्तिलकजीवातु- संमतः । ३ 'द्रुततरः' इति पाठमाश्रित्य त्वरिततरः' इति व्याख्यातं जीवातौ । ४ 'अत्रानुप्रासजात्यलंकारौं इति साहित्यविद्याधरी। ५ 'अत्र शार्दूलविक्रीडितं वृत्तम्' । 'अत्र तुल्ययोगिताश्लेषालंकारः' इति

साहित्यविद्याधरी । 'अत्र द्वयोरपि नलदयोः प्रकृतत्वात्केवलप्रकृतश्लेषोऽलंकारः' इति जीवातुः।