पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२१६

एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्थः सर्गः। ताभ्यामभूयुगपदप्यभिधीयमानं भेदव्यपाकृति मिथःप्रतिघातमेव । श्रोत्रे तु तस्य पपतुर्नृपतेर्न किंचिद्भैम्यामनिष्टशतशङ्कितयाकुलस्य ११७ ताभ्यामिति ॥ ताभ्यां मन्त्रिवैद्याभ्यां युगपदेककालमभिधीयमानं भेदस्य शब्दस्वरू- पविशेषस्य व्यपाकृतिर्निराकरणं यत्र (तत्) अभिन्नस्वरूपम् । एवंविधमपि वचनं मिथः परस्परं प्रतिघातो यत्र एवंविधं परस्परं भिन्नमेवाभूत् । भैम्यामनिष्टशतशङ्कितया अनर्थपरम्पराशङ्कितया आकुलस्य तस्य नृपतेः श्रोत्रे तु कर्णौ पुनः किंचिदेकस्यापि वच- नं न पपतुः शुश्रुवतुः । राजा भैम्यवस्थया नितरामाकुलोऽभूदित्यर्थः1 ॥ द्रुतविगमितविप्रयोगचिह्नामपि तनयां नृपतिः पदप्रणम्राम् । अकलयदसमाशुगाधिमग्नां झटिति पराशयवेदिनो हि विज्ञाः११४ द्रुतविगमितेति ॥ नृपती राजागमनमाकर्ण्य द्रुतं शीघ्रं विगमितं दूरीकृतं वि- प्रयोगचिह्नं यया एवंभूतामपि पदप्रणम्रां चरणपतितां तनयां असमाशुगः कामस्त- ज्जनित आधिः पीडा तत्र मग्नामकलयदजानात् । चिह्नाभावे कथं ज्ञातवानित्यत आह–हि यस्माद् विज्ञा ज्ञातारो झटिति शीघ्रं परेषामाशयवेदिनोऽभिप्रायाभिज्ञा भवन्ति । चिह्नेन 2विनापीत्यर्थः॥ व्यतरदथ पिताशिषं सुतायै नतशिरसे सहसोन्नमय्य मौलिम् । दयितमभिमतं स्वयंवरे त्वं गुणमयमाप्नुहि वासरैः कियद्भिः११९ व्यतरदिति ॥ अथ प्रणामानन्तरं पिता भीमो नतशिरसे नम्रमूर्ध्ने भैम्यै आदरातिश- यात्सहसा शीघ्र हस्ताभ्यां मौलिं मस्तकमुन्नमय्योच्चकैः कृत्य इति आशिषं व्यतरत् । इति किम्-हे स्वयंवरे स्वयं वृणुत इति स्वयंवरा, तत्संबोधनं हे पुत्रि, अथ च स्वयं व्रियतेऽस्मिन्निति स्वयंवरो राजसमूहः, तन्मध्ये वा त्वं कियद्भिः स्वल्पैर्द्वित्रैः वासरै- दिवसैः गुणमयं बहुगुणमभिमतं स्वेप्सितं दयितं, वल्लभमाप्नुहि लभस्वेति । त्वभीष्ट एव गुणमय3 इत्यर्थः॥ तदनु स तनुजासखीरवादीत्तुहिनऋतौ गत एव हीदृशीनाम् । कुसुममपि शरायते शरीरे तदुचितमाचरतोपचारमस्याः॥१२०॥ तदिति ॥ तदनु आशीर्वादानन्तरं स राजा तनुजासखीरित्यवादीत् । इति किम्- हे सख्यः, तुहिनर्तौ शिशिरर्तौ गत एव गतमात्र एव हि यस्मादीदृशीनां कोमलाङ्गीना प्राप्ततारुण्यानां च शरीरे कुमुममपि लग्नं सत् शरायते शरवदाचरति पीडां करोति, १ 'अत्र जातिरलंकारः । वसन्ततिलका वृत्तम्' इति साहित्यविद्याधरी । २ 'अत्रार्थान्तरन्यासो- लंकारः । अत्र वक्ष्यमाणे च वाक्यत्रय औपच्छन्दसिकं वृत्तम् । यदुक्तम्-'पर्यन्ते यौँ तथैव शेषमौपच्छन्दसिकं सुधीभिरुक्तम्' इति साहित्यविद्याधरी । द्रुतेत्यादि श्लोकचतुष्टयं पुष्पिताग्रावृत्तम्' इति जीवातुः। ३ 'अत्राशीरलंकारः' इति साहित्यविद्याधरी । ..