पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२१९

एतत् पृष्ठम् परिष्कृतम् अस्ति
१९८
नैषधीयचरिते

नषधीयचरिते तायेति वा । अथ च पक्षसहितस्य शैलस्य गमनमाश्चर्यकारि न । सकलस्यापि जगतो दुर्वहो जगतः सकाशाद्वा भारवान्यदाकाशं लङ्घयति, तदतितरामाश्चर्याय भवति । गु- रुत्वात्पतनं युक्तम्, ऊर्ध्वगमनमयुक्तमिति भावः । 'पर्वतः शैलदेवर्ष्योः' 'स्मयो गर्वे- ऽद्भुते' इति विश्वः । विस्मयाय, तादर्थ्ये चतुर्थी । पक्षे, 'क्रियार्थो-' इति वा । ल- घिर्गतौ भौवादिकोनुदात्तेत्1 ॥ गच्छता पथि विनैव विमानं व्योम तेन मुनिना विजगाहे । साधने हि नियमोऽन्यजनानां योगिनां तु तपसाखिलसिद्धिः॥३॥ गच्छतेति ॥ विमानं विनैव पथि गच्छता तेन मुनिना व्योमाकाशं विजगाहे आलो- डितम् । हि यस्मात् साधने उपकरणेऽश्वादौ अन्यजनानां योगिव्यतिरिक्तानां जनानां नियमः वाहनं विना गन्तुं न शक्नुवन्ति । योगिनां तपस्विनां तु तपसैवाखिलसिद्धिः समस्तकार्यसिद्धिः। खिलं प्रतिबन्धः, तद्रहिता सिद्धिर्गतिः । तेषां गमनादिसाधनं तप एव, नान्यदश्वादि । एव इवार्थः । विनैव पक्षिणेव गच्छतेति वा । किंभूतं व्योम- विमानं विगतं मानमियत्तापरिमाणं यस्मादिति वा2 ॥ खण्डितेन्द्रभवनाद्यभिमानॉल्लङ्घते स्म मुनिरेष विमानान्। अर्थितोऽप्यतिथितामनुमेने नैव तत्पतिभिरड्घ्रीविनम्रैः ॥ ४ ॥ खण्डितेति ॥ एष मुनिर्नारदो विमानॉल्लङ्घते स्म अतिचक्राम । किंभूतान्-खण्डि- त इन्द्रभवनादीनामभिमानो रमणीयताहंकारो यैस्तान् + 'इन्दुभवन' इति पाठे अत्यु- च्चत्वादतिदीप्तत्वाच्च त्याजितचन्द्रनक्षत्रादिस्थानदर्पान् । इन्दुभवनादीनां चन्द्रशाला- दीनां वा । तत ऊर्ध्वं गत इत्यर्थः । अथवा नादृतवान् । अङ्घ्रीविनम्रैश्चरणनिपतितैः तत्पतिभिर्विमानस्वामिभिः आतिथ्यमङ्गीक्रियतां विमानमारुह्यतामित्यादि अर्थितोऽप्य- तिथितां नैव अनुमेनेऽङ्गीचकार । विलम्बभियेति भावः। 'विमानोऽस्त्री' इत्यमरः3॥ तस्य तापनभिया तपनः खं तावदेव समकोचयदर्चिः। यावदेव दिवसेन शशीव द्रागतप्यत न तन्महसैव ॥ ५॥ तस्येति ॥ तपनः सूर्यः तस्य नारदस्य तापनं संतापनं तस्माद्भिया भयेन स्वं स्वकी- यचिस्तेजः, तावदेव प्रथममेव तावत्कालमेव तावत्परिमाणमेव वा समकोचयत्संको- चितवान् । सकलेन तेजसा यद्यहं तप्येय तर्हि मत्संनिधिमागतो मुनिः संतप्तो भवे- दिति तन्माभूत् , इति तेजः संकोचितम् । परं तावत्कालमेव यावदेव यावत्कालमेव तन्महसैव मुनितेजसैव कृत्वा स तपनः द्राक् शीघ्रं स्वयं न अतप्यत संतप्तो नाभूत् । १ 'अत्र गुणक्रियाविरोधालंकारः' इति साहित्यविद्याधरी । 'गुरुद्रव्यस्योत्पतनानहस्योत्पतनं विरुद्ध- मिति श्लिष्टोत्थापितो विरोधालंकारः' इति जीवातुः। २ 'विशेषोक्तिः काव्यलिङ्गं च' इति साहित्य- विद्याधरी । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः' इति जीवातुः। ३ 'अत्रोपमा विभावना च'

इति साहित्यविद्याधरी।