पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२२१

एतत् पृष्ठम् परिष्कृतम् अस्ति
२००
नैषधीयचरिते

रम् । 'आनन्दं ब्रह्मणो रूपम्' इति श्रुतेः । 'अनादि' इति पाठे ब्रह्मविशेषणम् । 'यतयो यतिनश्च' इत्यमरः । यतं यमनमस्यास्तीति इनिः । 'नलोपः सुप्स्वर-' इति नियमासवर्णदीर्घः[१]

  अर्चनाभिरुचितोच्चतराभिश्चारु तं सदकृतातिथिमिन्द्रः।

  यावदहकरणं किल साधोः प्रत्यवायधुतये न गुणाय ॥ ९ ॥

 अर्चनाभिरिति ॥ इन्द्र उचिताभ्यो योग्याभ्योऽपि सकाशादुच्चतराभिः श्रेष्ठाभिरर्चनाभिः पूजाभिः तं अतिथिं चारु विध्युक्तमार्गेण सद्कृत पूजितवान् । अधिकपूजाकरणे कारणमाह-साधोरतिथेर्यावदर्हं यथोचितं सत्करणमादरपूजादेः संपादनमतिथेर्यावती अर्हा उक्तास्ति, तावत्याः करणं यावदहकरणं तद्वा प्रत्यवायधुतये अकरणजन्यप्रत्यवायपरिहारायैव, न गुणाय तदतिरिक्ताधिकाय कस्मैचित्फलायेति नारदयोग्यपूजाभ्योऽप्यधिकाः पूजाः कृतवान् । 'कर्मभूयस्त्वात्फलभूयस्त्वम्' इति न्यायादधिकफलप्राप्तय इति भावः । दातृग्रहीत्रोर्योग्याश्च ता उच्चतराश्च ताभिः पूजाभिः पूजितवान् । यावदर्हम्, इति पक्षे यावदवधारणे' इत्यव्ययीभावः । 'आदरानादरयोः सदसती' इति गतिसंज्ञा [२]

  नामधेयसमतासखमद्रेरद्रिभिन्मुनिमयाद्रियत द्राक् ।

  पर्वतोऽपि लभतां कथमर्चा न द्विजः स विबुधमभुलम्भी ॥१०॥

 नामधेयेति ॥ अथ नारदपूजानन्तरमद्रिभिदिन्द्रः अद्रेः पर्वतस्य नामधेयेन पर्वत इति संज्ञया समता साम्यं तेन सखा मित्रं मुनि पर्वतनामानं द्राक्शीघ्रमाद्रियत पूजितवान् । अद्रिभिदः पर्वतपूजानुचितेति छलेनाशङ्कयाह-स द्विजः ब्राह्मणरूपः पर्वतोऽपि विबुधप्रभुमिन्द्रं लम्भी प्राप्तः सन् अर्चां पूजां कथं न लभताम् । अपितु तेन पूजा प्राप्तुं युक्ता । सन्तो गृहागतं शत्रुमपि पूजयन्तीति भावः, इति च्छलम् । नाममात्रेणायं पर्वतः, नतु तत्कार्यकारी। अयं तु द्विजः, न तु वैरी पर्वतः, तस्माद्युक्तमेव पूजनम्। अथ च पर्वतः पाषाणतुल्यो मूर्खोऽपि ब्राह्मणो विप्रत्वादाश्रितत्वाञ्च पण्डितश्रेष्ठं प्राप्तः पूजां कथं न लभताम् । ज्ञातिमात्रेण ब्राह्मणः पण्डितेनापि पूज्यः। नामधेय, इति 'नामरूपभागादिभ्यो धेयः' इति धेयः । समतासखम्, राजादिना टच [३]

  तद्भुजादतिवितीर्णसपर्याधुद्रुमानपि विवेद मुनीन्द्रः।

  स्वः सहस्थितिसुशिक्षितया तान्दानपारमितयैव वदान्यान् ॥११॥

 तद्भुजादिति ॥ परमस्य भावः पारमं दानस्य पारमं दानपारमं तद्विद्यते यस्यासौ दानपारमी तस्य भावो दानपारमिता अतिवदान्यता मुनीन्द्रो नारदः अतिशयेन वितीर्णा कृता सपर्या पूजा येन एवंभूतात्तद्भुजादिन्द्रभुजात् गुरोः स्वः स्वर्गे या इन्द्रेण त-


  1. 'अत्रानुप्रास उपमा च' इति साहित्यविद्याधरी
  2. 'अत्रार्थान्तरन्यासः' इति साहित्यविद्याधरी
  3. 'अत्रौजो गुणः । अत्र विरोधः काव्यलिङ्गं च' इति साहित्यविद्याधरी