पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२२२

एतत् पृष्ठम् परिष्कृतम् अस्ति
२०१
पञ्चमः सर्गः

द्भुजेन वा सहस्थितिस्तया कृत्वा सुशिक्षितया सुतरामभ्यस्तया एवंभूतया दानपारमि- तया वदान्यतया कृत्वा तान्प्रसिद्धान्द्रुमानपि कल्पवृक्षानपि वदान्यानेव दानशौण्डा- नेव विवेदामन्यत । कल्पवृक्षाणां दानशूरत्वं सहजं न, किंतु ते इन्द्रभुजाच्छिक्षित्वा- तिवदान्या जाता इति भावः । व्याख्यानान्तरं तु क्लिष्टत्वादुपेक्ष्यम् । युवादेराकृतिगण- त्वाङ्गीकारेण भावेऽणि पारमः, तस्मादत इनौ 'यस्येति च' इति तद्धितनिमित्तेऽल्लोपे पारमीति सिध्यति[१]

  मुद्रितान्यजनसंकथनः सन्नारदं बलरिपुः समवादीत् ।

  आकरः स्वपरभूरिकथानां प्रायशो हि सुहृदोः सहवासः ॥१२॥

 मुद्रितेति ॥ मुद्रितं निवारितमन्यजनेनान्यजनस्य वा संकथनं संभाषणं येन एवं. भूतः सन् बलस्य दैत्यस्य रिपुरिन्द्रो नारदं समवादीत्सादरमवोचत् , तेन सह संवादमकरोत् । अन्यभाषणनिवारणे हेतुमाह-हि यस्मात्सुहृदोः मित्रयोः सहवास एकत्र स्थितिः प्रायशो बाहुल्येन स्वसंबन्धिपरसंबन्धिन्यो भूरयो वह्वयः कथा गोष्ठ्यः, तासामाकरः खनिः तस्मादन्यकथां त्यक्तवान् । 'खनिः स्त्रियामाकरः स्यात्' इत्यम[२]रः॥

  तं कथानुकथनप्रसृतायां दूरमालपनकौतुकितायाम् ।

  भूभृतां चिरमनागतिहेतुं ज्ञातुमिच्छुरवदच्छत्तमन्युः ॥ १३ ॥

 तमिति ॥ शतमन्युरिन्द्र आलपने संभाषणे कौतुकी तस्य भावस्तत्ता तस्यां दूरमत्यर्थ कथानुकथनेन वचनानुवचनेन प्रसृतायां प्रवृद्धायां सत्यां तं नारदमवददुवाच । किंभूत इन्द्रः-भूभृतां राज्ञां स्वर्गं प्रति चिरं दीर्घकालमनागतिहेतुमनागमनकारणं ज्ञातुमिच्छुः। पुनरुक्तौ कारणम् । राजानोऽपराङ्मुखाः सन्तो युद्धं कृत्वा सांप्रतं किमिति स्वर्गं नागच्छन्तीति शातुमिच्छयावददित्य[३]र्थः ॥

  प्रागिव प्रसुवते नृपवंशाः किं नु संप्रति न वीरकरीरान् ।

  ये परमहरणैः परिणामे विक्षताः क्षितितले निपतन्ति ॥ १४ ॥

 प्रागिति ॥ हे मुने, नृपा एव वंशा वेणवो वीरा एव करीरा वंशाङ्कुराः, तान्प्रागिव पूर्वमिव संप्रतीदानीं न प्रसुवते जनयन्ति । किंन्विति प्रश्ने, वितर्के वा । करिण ईरयन्तीति करीरान्हस्तिपातनसमर्थान्वा, वीरयोधान्वा । प्रश्नेत्रानागमनं हेतुः। किं वितर्के च । यथा पूर्वं जनयन्ति स्म तथेदानीं नेति । ये वीरकरीराः परिणाम परिपूर्णे तारुण्ये वार्धके वाऽन्तकाले वा शस्त्रविद्यापरिणतो सत्यां वा परप्रहरणैः परेषां वैरिणामन्येषां च शस्त्रैः कुठारादिभिश्च विक्षता हताः खण्डिताश्च सन्तः क्षितितले निपतन्ति,


 

  1. 'अत्रातिशयोक्तिः' इति साहित्यविद्याधरी ।
  2. 'अत्रार्थान्तरन्यासो जातिश्च' इति. साहित्यविद्याधरी।
  3. 'अत्रानुप्रासः' इति साहित्यविद्याधरी।