आः स्वभावमधुरैरनुभावैस्तावकैरतितरा तरलाः स्मः ।
द्यां प्रशाधि गलितावधिकालं साधु साधु विजयस्व बिडौजः॥२४॥
आ इति ॥ हे बिडौज इन्द्र, वयं स्वभावमधुरैर्निसर्गसुन्दरैः । तावकैस्त्वदीयैरनुभावैः स्वभावसूचनैः प्रभावैर्वा अतितरामत्यर्थं आः तरलाः साश्चर्याः स्मो भवामः । ऋपीणामस्माकं तरलत्वमनुचितमिति पीडायां आःशब्दः, हर्षे वा। त्वं गलितोऽवधिर्मर्यादा यस्यैवंभूतः कालो यस्यां क्रियायां यथा तथा निरवधिकं द्यां स्वर्ग साधु सम्यक्प्रशाधि पालय । तथा साधु सम्यग्विजयस्व सर्वोत्कर्षेण वर्तस्व । 'अनुभावः प्रभावे स्यान्नि- श्चये भावसूचने' इति विश्वः । अनुगतो भाव इति समासः। प्रशाधि, शासः 'शा हो' इति शादेशः। साधुसाधु हर्षद्विरुक्तिर्वा । विजयस्व, 'विपराभ्यां जेः' इति तङ् । वेवेष्टि विट् व्यापकमोजो यस्य विडोजाः । पृषोदरादित्वाइद्धिः[१] ॥
संख्यविक्षततनुस्रवदमुक्षालिताखिलनिजाघलघूनाम् ।
यत्त्विहानुपगमः शृणु राज्ञां तजगद्युवमुदं तमुदन्तम् ॥ २५ ॥
संख्येति ॥ हे इन्द्र, यत्पुनर्यस्माद्धेतोर्वा इह स्वर्गे राज्ञामनुपगमोनागमनं तत् तं प्रसिद्धमुदन्तं राज्ञामनागमनहेतुं वृत्तान्तं शृणु । किंभूतानां राज्ञाम्-संख्ये रणे विक्षततनुभ्यो निहतशरीरेभ्यः स्रवन्निःसृतमस्त्रं रुधिरं तेन क्षालितं धौतमखिलं समग्रं निजं सहजमघं पापं येषां ते अत एव लघवस्तेषाम् । एवंभूतेन पातकेन लघूनां स्वर्गगमनयोग्यलाघवयुक्तानां वा । किंभूतमुदन्तम्-जगछूनां त्रैलोक्यतरुणानां मुत् संतोषो यस्मात् । 'यस्तु' इति क्वचित्पाठः[२]
सा भुवः किमपि रलमनध्य भूषणं जयति तत्र कुमारी।
भीमभूपतनया दमयन्ती नाम या मदनशस्त्रममोघम् ॥२६॥
सेति ॥ सा भीमभूपतनया दमयन्ती नाम कुमारी तत्र भुवि प्रसिद्धा जयति सर्वोत्कर्षेण वर्तते । किंभूता-भुवः भूषणमलंकारभूतं किमपि लोकोत्तरमनर्घममूल्यं रत्त्रं रत्नभूता । भूमण्डलं तयैवालंकृतमित्यर्थः । सा का—या अमोघमप्रतिहतं मदनशस्त्रं कामास्त्रम् । कुलनामसौन्दर्यसौभाग्यविवाहयोग्यत्वानि कथितानि[३]॥
संप्रति प्रतिमुहूर्तमपूर्वा कापि यौवनजवेन भवन्ती ।
आशिखं सुकृतसारभृते सा कापि यूनि भजते किल भावम् ॥ २७ ॥
संप्रतीति ॥ सा भैमी क्वापि यूनि लोकोत्तरे अथ च मयाप्यज्ञातनामनि तरुणे संप्रति भावमनुरागं भजते।किलेति श्रूयते । किंभूता-यौवनजवेन तारुण्यभरवेगेन प्रति-