पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२२७

एतत् पृष्ठम् परिष्कृतम् अस्ति
२०६
नैषधीयचरिते

मुहू[१]र्त प्रतिक्षणं कापि वर्णयितुमशक्या अपूर्वा सुन्दरी भवन्ती जायमाना । किंभूते यूनि-आशिखं नखादारभ्य चूडापर्यन्तं सुकृतसारेण पुण्योत्कर्षण भृते पूर्णे । स्वत एव सुन्दरी (स्वत एव) यस्मिन्ननुरक्ता तत्पुण्यस्येयत्ता नास्तीत्यर्थः । कापीति निर्देश इन्द्रस्य ज्ञानाभिलाषजन[२]नाय ॥

  कथ्यते न कतमः स इति वं मां विवक्षुरसि किं चलदोष्ठः ।

  अर्धवर्मनि रुणसि न पृच्छां निर्गमेण न परिश्रमयनाम् ॥२७॥

 कथ्यत इति ॥ हे इन्द्र, त्वं मां प्रति इति किमर्थं विवक्षुरसि वक्तुमिच्छसि अपि तु न वक्तव्यम् । किंभूतः-चलंश्चञ्चल ओष्ठोऽधरो यस्य सः। इति किम्-यस्मिन् सा भावं भजते स कतमो युवा न कथ्यत इति । अपि तु श्रीमता कथनीयः । त्वं अर्धवर्मनि वदनमार्गमध्ये पृच्छां प्रश्नं न निरुणद्धि, अपि तु रुणत्स्येवेति काकुः।रुर्धािर्द्धिकर्मा। युक्तमेतत् , त्वं एनां पृच्छां निर्गमेण मुखाग्निःसरणेन न परिश्रमय खेदं मा नैषीः। स कः इति त्वयाहं न प्रष्टव्य इत्यर्थः । पृच्छा, भिदादित्वादङि ङित्त्वाद् ’ग्रहिज्या-' इति संप्रसारणम् ॥

 तदकथने कारणमाह-

  यत्पथावधिरणुः परमः सा योगिधीरपि न पश्यति यस्मात् ।

  बालया निजमनःपरमाणो हीदरीशयहरीकृतमेनम् ॥२९॥

 यत्पथेति ॥ परमोऽणुः परमाणुः यस्या योगिबुद्धेः पन्था मार्गस्तस्य यस्यावधिर्मर्यादारूपः, परमाणुपर्यन्तं योगिबुद्धेविषयो न तु तस्मात्परतः किंचित् । सा योगिनां मादृशामपि बुद्धिरेनं युवानं यस्मात्कारणान्न पश्यति । कारणमेवाह-किंभूतमेनम्- बालया निजमनःपरमाणौ स्वीयमनोलक्षणे परमाणौ हीरेव लज्जैव दरी कन्दरा तस्यां शेते शयो हरिः सिंहस्तत्स्वरूपं कृतम् । 'अणुपरिमाणं मनः' इति तार्किकाः। मन एव योगिबुद्ध्या गृह्यते, न तु तत्स्था ह्रीस्तस्यां विद्यमानो दूरत इति । सा तु लजावशात्कस्याप्यग्रे न कथयतीत्यर्थः। परमाणूनां निरवयवरूपाद्याश्रयत्वं यथा, तथा निरवयवह्रियोऽपीत्यविरुद्धमित्यर्थः। कन्दरायां सुप्तःसिंहः केनापि न ज्ञायते । सिंहरूपणात्तस्य श्रेष्ठत्वं सूचितम् । 'शयवासवासिषु-' इति विकल्पविधानाद 'ह्रीदरीशय-' इत्यत्र


  सा शरस्य कुसुमस्य शरव्यं सूचिता विरहवाचिभिरङ्गैः।

  तातचित्तमपि धातुरधत्र स्वस्वयंवरमहाय सहायम् ॥ ३०॥

 सेति ॥ सा भैमी स्वस्वयंवरमहाय स्वीयस्वयंवरोत्सवाय तातचित्तमपि पितृचित्तमपि धातुर्ब्रह्मणः सहायमधत्त कृतवती । किंभूता-क्रशिमपाण्डिमादिना वि-


  1. 'अत्रातिशयोक्तिः' इति साहित्यविद्याधरी।
  2. 'अत्रानुप्रासोतिशयोक्तिश्च' इति साहित्यविद्याधरी