पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२३०

एतत् पृष्ठम् परिष्कृतम् अस्ति
२०९
पञ्चमः सर्गः।

क्रमेण वादो वचनम् उत्तरस्य प्रत्युत्तरेण पुरस्तात्पुरस्ताद्वा शुभः सुभगो भवति । अतः पुनरप्युवाचेत्यर्थः । अभेदि, कर्मकर्तरि'[१]

  कानुजे मम निजे दनुजारौ जाग्रति स्वशरणे रणचर्चा ।

  यमुजाङ्कमुपधाय जयाङ्क शर्मणा खपिमि वीतविशङ्कः ॥ ३॥

 केति ॥ हे मुने, स्वस्य मम शरणे गृहे रक्षितरि च स्व आत्मैव रक्षिता यस्य स्वशरणार्थ परानपेक्षे वा निजे स्वीये सहजे वानुजे कनिष्ठभ्रातरि दनुजारौ दैत्यदानवशत्रौ तस्मिन्नुपेन्द्रे जाग्रति सावधाने जागरूके सति मम का रणस्य चर्चा विचारणा । मम रणचिन्ता नास्तीत्यर्थः । निजेऽनुजे इत्यनेन आज्ञावशवर्तित्वं वत्सलत्वात्स्वतःप्रवृत्तत्वं च सूचितम् । दनुजारावित्यनेन सामर्थ्यातिशयः सूचितः । स्वस्य शरणे गृहविषये जाग्रतीति वा । परानपेक्षमात्मनो रक्षके इति सर्वविशेषणसार्थक्यम् । तस्मिन्कस्मिन्-जयश्चिद्रं यस्य जयस्य चिह्नभूतं वा । यस्योपेन्द्रस्य भुजाकं दक्षिणभुजोत्सङ्गमुपधायोच्छीर्षकीकृत्य वीतविशङ्को गतभयः सन् शर्मणा सुखेन स्वपिमि निद्रामिपूर्वोक्तहे[२] तोः॥

  विश्वरूपकलनादुपपन्नं तस्य जैमिनिमुनित्वमुदीये ।

  विग्रहं मखभुजामसहिष्णुर्व्यर्थतां मदशनिं स निनाय ॥ ३९ ॥

 विश्वेति ॥ हे मुने, तस्य मदनुजस्य विश्वरूपकलनात् 'सर्व विष्णुमयं जगत्' इति विश्वेषां सर्वेषां रूपस्य स्वरूपस्य कलनात्स्वीकारात् । सर्वात्मकत्वाङ्गीकरणादित्यर्थः । उपपन्नं घटमानं जैमिनिमुनित्व[३]मुदीये उत्पन्नम् । जैमिनेर्विश्वान्तःपातित्वात् , विष्णोश्च विश्वरूपत्वाजैमिनिमुनिरूपत्वं युक्तमेवेत्यर्थः । यतस्तस्य जैमिनिमुनित्वम्, अतो जैमिनिरूपः सोऽनुजो मखभुजां देवानां विग्रहं शरीरं दैत्यैः सह युद्धं वासहिष्णुरसहमानो मदशनि मम वज्रं व्यर्थतां वैयर्थ्य निनाय प्रापयत् । शत्रुमारणेन वज्रकृत्यं स्वयमेव कृतवानित्यर्थः । वेदान्ताद्यभिमतदेवतानां विग्रहेण कर्मसमवायेऽङ्गीक्रियमाणे युगपदनेकयजमानैर्नानादेशेष्वनुष्टीयमानेषु कर्मस्वेकयागगतस्येन्द्रस्येन्द्रशरीरस्य तस्मिन्नेव क्षणे भिन्नदेशयामान्तरहविर्ग्रहणे शक्त्यभावाद्यागान्तरलोपप्रसङ्गे वेदस्याप्रामाण्यापातः। न चैश्वर्यवशादनेकशरीराङ्गीकारेणैकोऽपि युगपत्कृष्णवत्सर्वत्र प्रयास्यतीति वाच्यम् । तस्यैवंविधैश्वर्यवत्त्वे मानाभावात् । अचेतनानामपि देवतात्वाङ्गीकारात्तेष्वैश्वर्यसंभावनाया अप्यभावाच्च । तथा चाहानुक्रमणिकार:-'या काचित्तेन मन्त्रेणोच्यते सा देवता चेतनाचेतना वा भवतु क्वचिद्बाणाः, क्वचिद्धनुः, क्वचिन्मौर्वी' इति । निरुक्तकारोपि-'इमा देवता अनुक्रान्ताः सूक्तभाजो हविर्भाज ऋग्भाजश्च'-इत्याह । 'ययात्र भजते हविः सा देवता' इति श्रुतिमात्रेण कर्मसमवायेऽङ्गीक्रियमाणे इदमिन्द्रायेत्यादि


  1. 'अत्रातिशयोक्तिः' इति साहित्यविद्याधरी
  2. 'अत्रार्थान्तरन्यासः' इति जीवातुः
  3. 'उदीये इत्यत्र 'ईङ् गतौ' दिवादिः' इति तिलकदीपिके । लट उत्तमपुरुषैकवचनं तेन ‘अवैमि' इति व्याख्यानं युक्तं प्रतिभाति । 'इण् गतौ, कर्तरि लिट्' इति मल्लिनाथस्तु महामहोपाध्याय एव ।