पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२३१

एतत् पृष्ठम् परिष्कृतम् अस्ति
२१०
नैषधीयचरिते

चतुर्थ्यन्तपदरूपेणैव युगपदनेकयागसंबन्धो घटत इति वेदप्रामाण्यसिद्धेः 'वज्रहस्तः पुरंदरः' इत्यादेश्वार्थवादत्वसमर्थनात् 'बहुभिर्युगपद्यागे समारब्धे समन्ततः । पुरुहूतः समाहूतो नृभिः क्व नु स गच्छतु ॥' इत्यादि ग्रन्थसंदर्भेण देवताधिकरणे देवतानां जैमिनिमुनिना मन्त्ररूपेणैव कर्मसमवायस्य समर्थनात् । स्वचक्रेणैव दानवनिवारणाच्चेत्यर्थः। अथ च कस्मिंश्चित्समये सवज्रमिन्द्रबाहुं जैमिनिः स्तम्भितवान्, अतोऽपि वज्रस्य वैयर्थ्यम् । अत्र 'जैमिनिश्च सुमन्तुश्च वैशम्पायन एव च । पुलस्तिः पुलहो विष्णुः षडेते इति वृद्धोक्तिःप्रमाणम्। 'मन्त्रमयी देवतेति सर्वकर्मसु देवतानां सत्त्वम्' इति जैमिनिः । 'कर्मसमवायिनी देवता' इत्यन्ये । इति समाधिः[१]

  ईदृशानि मुनये विनयाब्धिस्तस्थिवान्स वचनान्युपहृत्य ।

  प्रांशुनिःश्वसितपृष्ठचरी वानारदस्य निरियाय निरोजाः ॥ ४० ॥

 ईदृशानीति ॥ विनयस्य अब्धिः समुद्रोऽतिविनीतः स इन्द्र ईदृशानि पूर्वोक्तानि वचनानि मुनये उपहृत्य उपहारीकृत्य तस्थिवान् । तूष्णीभावमापेत्यर्थः। युद्धाभावजन्यदुःखेन प्रांशु दीर्घ निःश्वसितं तस्य पृष्ठचरी पश्चात्संचारिणी प्रथमं निःश्वस्योक्ता अत एव निरोजा दीना नारदस्य वाक् निरियाय निर्गता । ईप्सितरणालाभेन निःश्वासो, वाचो निष्प्रभत्वं च [२]

  स्वारसातलभवाहवशङ्की निर्वृणोमि न वसन्वसुमत्याम् ।

  द्यां गतस्य हृदि मे दुरुदर्कः क्ष्मातलचयभटाजिवितर्कः ॥ ४१ ॥

 स्वरिति ॥ हे इन्द्र, वसुमत्यां भूलोके वसन्नहं स्वः स्वर्गश्च रसातलं च स्वर्गपाताले तयोर्भवो जात आहवः सङ्ग्रामस्तच्छङ्काशीलः सन् न निर्वृणोमि सुखीभवामि । पृथिव्यां युद्धाभावात्स्वर्ग युद्धदर्शनेच्छया आगतोऽहमित्यर्थः । द्यां गतस्यापि मे हृदि मायाः पृथिव्यास्तले स्वरूपाधोभागौ तयोर्द्वयं भूपातालयुगं तत्रस्थानां भटनामाजिः संग्रामस्तस्य वितर्कः संभावना दुरुदर्को दुष्टोत्तरकालः। निष्फल इत्यर्थः । स्वर्गेऽपि युद्धाभावादत्र स्थितस्य मम भुवि पाताले वा केनचिच्रेण युद्धं कृतं स्यादिति मनीषया न सुखमित्यर्थः । 'अधःस्वरूपयोरस्त्री तलम्' इत्यमरः 'उदर्कः फलमुत्तरम्' इति च । स्वारसेति, 'ठूलोपे पूर्वस्य-' इति दीर्घः[३]

  वीक्षितस्वमसि मामथ गन्तुं तन्मनुष्यजगतेऽनुमनुष्व ।

  किं भुवः परिवृढा न विवोढुं तत्र तामुपगता विवदन्ते ॥ ४२ ॥

 वीक्षित इति ॥ हे इन्द्र, मया त्वं वीक्षितो दृष्टोऽसि । अथ मङ्गले आनन्तय वा । युद्धाभावात्राप्यहं न सुखी तत्तस्मान्मनुष्यजगते भूलोकाय गन्तुं त्वं अनुमनुष्वानुजानीहि । तत्र युद्धे किं प्रमाणमत आह-तत्र भूमौ तां भैमी विवोढुं परिणेतुमुपगताः समागता भुवः परिवृढाः प्रभवो राजानः किं न विवदन्ते । अहमहमिकया परस्परं


 

  1. 'अत्रातिशयोक्तिः' इति साहित्यविद्याधरी । 'प्रकृताप्रकृतश्लेषः' इति जीवातुः
  2. 'अत्र रूपकं जातिश्च' इति साहित्यविद्याधरी
  3. 'अत्र काव्यलिङ्गम्' इति साहित्यविद्याधरी।