पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२३२

एतत् पृष्ठम् परिष्कृतम् अस्ति
२११
पञ्चमः सर्गः।

कलहं न करिष्यन्ति किमित्यर्थः । ततो युद्धं ततो मम सुखं स्यादित्याज्ञां देहीत्यर्थः । जगते, 'गत्यर्थकर्मणि-' इति चतुर्थी । 'प्रभौ परिवृढः' इति साधुः । विवदन्ते, भासनोपसंभाषा-' इति विमतौ तङ् 'वर्तमान-' इति वर्तमानवत्प्रत्ययश्च[१]

  इत्युदीर्य स ययौ मुनिरुर्वीं स्वर्पतिं प्रतिनिवर्त्य बलेन ।

  वारितोऽप्यनुजगाम सयत्नं तं कियन्त्यपि पदान्यपराणि ॥ ४३ ॥

 इतीति ॥ स मुनिः इत्युदीर्य पूर्वोक्तमुक्त्वा उर्वी ययौ । किं कृत्वा-वलेन बलात्कारेण स्वर्पतिं नाकनायकं प्रतिनिवर्त्य परावर्त्य । वारितोऽपि शपथादिना तिष्ठ तिष्ठेति निषिद्धोऽपि स शक्रः सयत्नं यथा तथा कियन्त्यप्यपराणि द्वित्रादिपदानि तं नारदमनुजगाम पश्चाद्गमत् । 'यन्तम्' इति क्वचित्पाठः तदा स इन्द्रः । स्वर्पतिम् , अहरादित्वाद्रेफः । पदानि, अध्वमानार्थत्वादत्यन्तसंयोगे द्वितीया । 'वारितेऽप्यनुगमाय सजन्तम्' इति पाठे वारितेऽपि निवारणे कृतेऽपि अनुगमाय कियन्त्यपि पदानि सजन्तं लगन्तं स्वर्पति बलान्निवर्त्य ययावित्यन्वयः [२]

  पर्वतेन परिपीय गभीरं नारदीयमुदितं प्रतिनेदे ।

  खस्य कश्चिदपि पर्वतपक्षच्छेदिनि स्वयमदर्शि न पक्षः ॥ ४४ ॥

 पर्वतेनेति ॥ पर्वतेन मुनिना गभीरमर्थगभीरं स्थूलं च नारदीयं नारदसंबन्धि उदितं वचनं परिपीय सादरं श्रुत्वा प्रतिनेदे साधूक्तमिति तस्याभिनन्दनं चक्रे । पर्वतपक्षाछिनत्त्येवंशीले इन्द्रे विषये, अथ च पर्वतस्य पक्षं मतं छिनत्त्येवंशीले इन्द्रे स्वस्य आत्मनः कश्चिदपि पक्षो ममैवं प्रतिभातीति किंचिदपि मतं स्वयं नादर्शि प्रदर्शितम् । अथ च 'आपो नारा इति प्रोक्ताः' इति वचनान्नारमुदकं ददाति नारदो मेघः, तदीयं गजितं परिपीय अद्रिणा प्रतिनन्द्यते प्रतिध्वन्यते । गिरिगरुच्छेदिनि स्वपक्षः स्वगरुन्ति छेदनभयात्पर्वतेन न प्रदान्त इत्युक्तिः[३]

  पाणये बलरिपोरथ भैमीशीतकोमलकरग्रहमहम् ।

  भेषजं चिरचिताशनिवासव्यापदामुपदिदेश रतीशः ॥ ४५ ॥

 पाणय इति ॥ अथ रतीशः कामः चिरं चितानां संभृतानामशनिवासेन वज्रवासेन जन्यानां विशिष्टानामापदां रोगाणामहं योग्यं तदपनयनसमर्थ भैमी(म्याः) शीतकोमलस्य करस्य ग्रहं परिणयनलक्षणं भेषजमौषधं बलरिपोः पाणये उपदिदेश समादिष्टवान् । स्मरो भैमीविवाहोत्सुकमिन्द्रं चकारेत्यर्थः । भैमीप्राप्तौ वज्रत्यागात्कठिनवनजन्यः संतापः शाम्यतीत्यर्थः । दाहशान्त्यर्थमन्यत्रापि शीतलं भेषजमुपदिश्यते [४]


 

  1. अत्र छेकानुप्रासः' इति साहित्यविद्याधरी
  2. 'अत्रातिशयोक्तिः' इति साहित्यविद्याधरी
  3. 'अत्र श्लेषः' इति साहित्यविद्याधरी । 'पर्वतपक्षच्छेदित्वादिन्द्रस्याने पर्वतेन स्वपक्षो न प्रकाशितः' इति ध्वनिः।
  4. 'अत्र छेकानुप्रासरूपकम्' इति साहित्यविद्याधरी । अत्रं कामनिबन्धनस्य भैमीपाणिग्रहणस्याशनितापशमनोत्प्रेक्षा व्यञ्जकाप्रयोगाद्गम्या' इति जीवातुः।