पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२३४

एतत् पृष्ठम् परिष्कृतम् अस्ति
२१३
पञ्चमः सर्गः

दीप्ततायाः शान्ततां ब्रूते । स्वत्यागदुःखवशाच्छयामत्वं जातं स[१]र्वरपि ज्ञातमित्यर्थः । अथच-अस्या उज्ज्वलं शृङ्गाररसप्रधानमान्तरं मनः शान्तं शान्तैकरसप्रधानं ब्रूते स्म । तस्या अपि वैराग्यमभूदित्यर्थः । अथ च -शान्तं कोपरहितम् । तदीयमन्तः करणम् उदतिशयेन ज्वलतीत्युज्ज्वलं दीप्तं सकोपमभाषत । तत्त्यागात्तदानी क्रुद्धा सा जातेत्यर्थः। कोपाच्छयामता भवति । अत्रापि शान्तस्य दीप्तत्वं शान्तरसस्य च शृङ्गाररसत्वमित्युभयमप्याश्चर्यकारि । श्यामवर्णस्य च शृङ्गारकथनं (त्वयुक्तं तस्य तदर्पणत्वात् । उच्चरमाणे, 'उदश्वरः सकर्मकात्' इत्यात्मनेपदम्[२]

  जीवितेन कृतमप्सरसां तत्प्राणमुक्तिरिह युक्तिमती नः ।

  इत्यनक्षरमवाचि घृताच्या दीर्घनिःश्वसितनिर्गमितेन ॥ ४९ ॥

 जीवितेनेति ॥ घृताच्या देवाङ्गनया दीर्घनिःश्वसितस्य निर्गमितेन निःसरणेन कृत्वा इति अनक्षरं वविनैवावाचि । अथ च अनक्षरमवाच्यमवाचि । इति किम्-अप्सरसां नोऽस्माकं इह समये जीवितेन कृतमलम्, इन्द्रस्य भैम्यनुरागाजीवितं निष्फलं यतः, तत्तस्मान्नोऽस्माकं प्राणमुक्तिः प्राणत्याग एव युक्तिमती युक्तेति । दुःखेन तादृग्दी? निःश्वासो मुक्तो यथा प्राणा अपि वहिनिर्गच्छन्तीति भावः । प्राणा निःश्वासरूपाः, ततस्तन्निर्गमात्प्राणनिर्गमो युक्तः। 'अनक्षरमवाच्यम्' इत्य [३]मरः ॥

  साधु नः पतनमेवमितः स्यादित्यभण्यत तिलोत्तमयापि ।

  चामरस्य पतनेन कराब्जानविलोलनचलद्भुजनालात् ॥ ५० ॥

 साध्विति ॥ तद्विलोलनेन चामरचालनेन चलन्-चञ्चलो भुज एव नालो यस्य एवंविधात् कर एवाजं कमलं तस्माच्चामरस्य पतनेन कृत्वा तिलोत्तमया देवानयापि इत्यभण्यतावादि । इति किम्-इतोऽस्मात्स्वर्गान्नोस्माकं चामरवत्पतनमेव युक्तं स्यादिति । दुःखवशादतिवैकल्यात्त आत्तत्करकमलाञ्चामरं पतितमिति भावः। चक्षिङॊ ङित्करणाज्ज्ञापकादनुदात्ततोपि चलतेः परस्मैपदं श[४]ता ॥

  मेनका मनसि तापमुदीतं यत्पिधित्सुरकरोदवहित्थाम् ।

  तत्स्फुटनिजहृदः पुटपाके पङ्कलिप्तिमसृजद्बहिरुत्थाम् ॥ ५१ ॥

 मेनकेति ॥ मेनका देवाङ्गना मनसि उदीतं जातं तापं विरहज्वरं पिधित्सुः पिधातुमिच्छुः अवहित्थामाकारगुप्तिमकरोदिति यत् तत् आकारगुप्तिकरणमेव कर्मीभूतं निजहृदः स्वहृद्यस्य पुटमध्ये यः पाकः तद्विषये बहिरुत्थां बहिर्जातां पङ्कलिप्ति पङ्कलेपमेवासृजद्करोत् । स्फुटमुत्प्रेझे । संतापाकारगुप्तिभ्यां तद्धृदयमतितरां पीडितम् । अन्योऽपि पुटपाके बहिः पङ्कलेपं करोति । स्फुटतो निजहृद इति वा । मेनकेति पृषोदरदित्वात्साधुर्भाषाया[५]मपि ॥


 

  1. 'अत्र भावोदयानुप्रासोत्प्रेक्षासंसृष्टिः' इति साहित्यविद्याधरी
  2. 'अत्रानुप्रासापडुतिश्लेषातिशयोक्तिश्च' इति साहित्यविद्याधरी।
  3. चलतेादिचुरादिस्थस्यानुदात्तेत्त्वाभावादुदात्तेत्त्वस्यैव सत्त्वेन चिन्त्यमिदम् ।
  4. 'अत्राप्रतीयमानोत्प्रेक्षारूपकापह्नुतिसंसृष्टिः' इति साहित्यविद्याधरी
  5. 'अत्रोत्प्रेक्षा' इति साहित्यविद्याधरी।