पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२३८

एतत् पृष्ठम् परिष्कृतम् अस्ति
२१७
पञ्चमः सर्गः।

त्यर्थः । अथच जडत्वं, तयैव चिन्तया स्तब्धत्वमपि प्राप । सा नलसौन्दर्या(तारुण्या)वलोकेन प्राज्यो वहुतरो विस्मयरस आश्चर्यरसः, तेन स्तिमितस्य निश्चलस्य अस्य जलपतेर्वरुणस्य किमु न औचिती, अपित्वौचित्यमेव । जलपतेरुदकरूपत्वम्, जडपतेमूर्खश्रेष्ठस्य च मन्दभूयत्वं च युक्तमेव । अन्यस्यापि विशिष्टगर्वरसयुक्तस्य जडमतेर्जडत्वं युक्तमित्युक्तिः। तादृशं तमालोक्यातितरां सचिन्तोऽभूदित्य[१]र्थः ॥

  रूपमस्य विनिरूप्य तथातिम्लानिमाप रविवंशवतंसः

  कीर्यते यदधुनापि स देवः काल एव सकलेन जनेन ॥ ६२

 रूपमिति ॥ रविवंशस्य वतंसो भूषणं यमः अस्य नलस्य रूपं सौन्दर्य विनिरूप्य विशेषेण सादरमवलोक्य तथा तेन प्रकारेणातिम्लानिमधिकं कालिमानमाप । यद् येन कारणेन सकलेनापि जनेनाधुनापि स देवः कालः कृष्णवर्ण एव अथ च कालसंशकः कीर्त्यते कथ्यते । नलरूपावलोकनजनितकालिनोऽद्यापि वर्तमानत्वाद्यमस्य कालत्वमन्वर्थ न तु नाममात्रेणेत्यर्थः । यमोऽपि सचिन्तोऽभूदिति भावः।रविवंशवतंसस्य श्यामत्वमाश्चर्यकारि । तथानिर्वचनीयस्वरूपस्य सौन्दर्य विलोक्य यस्माद्यमोऽपि कालिमानं प्राप तस्माजनैरेवं कीर्त्यत इति[२]

  यं बभार दहनः खलु तापं रूपधेयभरमस्य विमृश्य ।

  तत्र भूदनलता जनिकी मा तदप्यनलतैव तु हेतुः ॥ ६३ ॥

 यमिति ॥ दहनोऽग्निः अस्य नलस्य रूपधेयस्य सौन्दर्यस्य भरं बाहुल्यं विमृश्य विचार्य दुःखाद्यं तापं बभार तत्र संतापेऽनलताग्निता खलु निश्चयेन जनिकर्त्रीं जन्मकारिणी मा भूत् । स्वेन स्वस्य तापकरणायोगादेकस्यैव कर्तृत्वकर्मत्वविरोधात् । तदपि तथापि तु पुनिश्चितमनलतैव नलान्यत्वमेव हेतुः कारणम् । अहं चेन्नलोऽभविष्य तहि भैमी ममैवाभविष्यत् । तत्तु नाभूदिति दुःखवशात्संतप्तोऽभूदिति भावः। रूपधेय इत्यत्र 'रूप-' इत्यादिना स्वार्थे धेयः । जनिकीत्यवतरत्वबोधिकेतिवत्साधुः[३]

  कामनीयकमधाकृतकामं काममक्षिभिरवेक्ष्य तदीयम् ।

  कौशिकः स्वमखिलं परिपश्यन्मन्यते स्म खलु कौशिकमेव ॥६४॥

 वकामेति ॥ कौशिक इन्द्रोऽखिलं स्वमात्मानं परिपश्यन्परितो विलोकयन् खलु निश्चितं कौशिकमेवोलूकमेव मन्यते स्म । किं कृत्वा-अधः कृतो न्यक्कृतः कामो येन तदीयं नलसंबन्धि कामनीयकं सौन्दर्यमक्षिभिः सहस्रेणापि नेत्रैः काममतितरामवेक्ष्य निपीय । 'नलाग्रेऽहमुलूकतुल्य एवेतीन्द्रस्य बुद्धिरुभूत् । प्रत्यवयवं स्वस्य नेत्रसद्भावात् । विसंस्थुलत्वादित्यर्थः । अक्षिभिरिति बहुवचनं तद्रूपावलोकने सौन्दर्यसूचना-


 

  1. 'अत्र च्छेकानुप्रासः श्लेषश्च' इति साहित्यविद्याधरी
  2. ‘अत्र च्छेकानुप्रासोऽतिशयोक्तिश्च' इति साहित्यविद्याधरी
  3. 'अत्र विरोधाभासः' इति साहित्यविद्याधरी