पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२३९

एतत् पृष्ठम् परिष्कृतम् अस्ति
२१८
नैषधीयचरिते

र्थम् । कौशिकस्य कौशिकत्वं युक्तमेव । 'महेन्द्रगुग्गुलूलूकव्यालमाहिषु कौशिकः' इत्यमरः । कामनीयकम्, पूर्ववद्भावे 'योपधात्-' इति वुञ्[१]

  रामणीयकगुणाद्वयवादं पूर्वमुत्थितममुं परिभाव्य ।

  विस्मयाय हृदयानि वितेरुस्तेन तेषु न सुराः प्रबभूवुः ॥६५॥

 रामेति ॥ सुरा इन्द्रादयः अमुं नलं मूर्तमाकारवन्तमुत्थितमुदितं रामणीयकं सौन्दर्यं तल्लक्षणो गुणः, तस्याश्चैत(द्वय)वादोऽद्वितीयवादः तं परिक्षाव्य विचार्य हृदयान्यन्तःकरणानि विस्मयायाश्चर्याय यतो वितेरुः दत्तवन्तः । आकारवत्सौन्दर्यमिदमेकमेव दृष्टं नान्यत्रेत्याश्चर्ययुक्ता यतो जातास्तेन कारणेन तेषु हृदयेषु विषये न प्रबभूवुः समर्था नाभूवन् । आश्चर्यवशाकि करणीयमधुनेति किमपि न स्फुरितमिति भावः । दानस्य स्वस्वत्वनिवृत्तिपरस्वत्वापादनत्वाद्विस्मयाय दत्तेषु हृदयेषु स्वामित्वं नाभूदिति युक्तमेव । रामणीयकं गुणो यस्य तस्याद्वयवादः एतादृशोऽयमेव नान्य इति वा। रामणीयकं कामनीयक[२]वत् ॥

  प्रैयरूपकविशेषनिवेशैः संवदद्भिरमराः श्रुतपूर्वैः ।

  एष एव स नलः किमितीदं मन्दमन्दमितरेतरमूचुः॥ ६६ ॥

 प्रैयेति ॥ अमरा इति एवं इदमितरतरं परस्परं मन्दमन्दमल्पस्वरं यथा तथा ऊचुः। एवमिदं कथम्-श्रुतपूर्वैः पूर्व लोकमुखाच्छूतैः संवदद्भिः यादृशा गुणाः पूर्व श्रुतास्तादृशा एवाधुना दृष्टा इति संवादं भजमानैः प्रैयरूपकस्य प्रियरूपत्वस्य यो विशेषोऽतिशयस्तस्य निवेशैरवस्थानैः सौन्दर्यविशेषविन्यासैः कृत्वा स नलः एष एव किम् । श्रुतानुरूपगुणावलोकनेन नलं व्यतर्कयन्नित्यर्थः । प्रैयरूपकम्, मनोज्ञादित्वाद्भावे बुञ् । मन्दमन्दम्, प्रकारे द्विरुक्तिः[३]

  तेषु तद्विधवधूवरणार्हं भूषणं स समयः स रथाध्वा ।

  तस्य कुण्डिनपुरं प्रतिसर्पन्भूपतेर्व्यवसितानि शशंसुः ॥ ६७ ॥

 तेष्विति ॥ एते पदार्थाः भूपतेनलस्य व्यवसितानि उद्योगास्तेष्विन्द्रादिषु विषये शशंसुः। अयं भैमीवरणार्थ गच्छतीति तेभ्यः कथयामासुः। एते के-तद्विधातिसुन्दरी वधूभैमी तस्या वरणाह योग्यं भूषणमेकः पदार्थः, स समयः स्वयंवरकालश्चैकः, कुण्डिनपुर प्रतिसर्पन्प्रतिगच्छन् स रथाध्वा रथमार्ग एकः, । नलस्य भूषणादि विचार्य अयं भैमीवरणार्थं तत्र गच्छतीति तैनिर्णीतमित्य[४]र्थः ॥

  धर्मराजसलिलेशहुताशैः प्राणतां श्रितममुं जगतस्तैः ।

  प्राप्य हृष्टचलविस्तृततापैश्चेतसा निभृतमेतदचिन्ति ॥ ६ ॥


 

  1. 'अत्र च्छेकानुप्रासोत्प्रेक्षालंकारः' इति साहित्यविद्याधरी
  2. 'अत्रातिशयोक्तिः समासश्च' इति साहित्यविद्याधरी
  3. 'अत्र जातिः' इति साहित्यविद्याधरी।
  4. 'अत्र समुच्चयालंकारः' इति साहित्यविद्याधरी।