पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२४

एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ श्रीः॥ महाकविश्रीहर्षप्रणीतं नैषधीयचरितम् । नारायणकृतया नैषधीयप्रकाशाख्यव्याख्यया समेतम् ।

प्रथमः सर्गः । वैदेही यस्य वामे जयति जयजनिर्दक्षिणे लक्ष्मणोऽपि श्रीमानग्रे हनूमानतुलबलचयो हस्तविन्यस्ततत्त्वः। कोदण्डं काण्डमेकं दधदहितकुलध्वंसकारी समन्ता- दव्याव्याजभव्याकृतिसलिलनिधिर्जानकीजानिरस्मान् ॥ दशकंधरकरिसिंहः सीताचेतःसरोजरोलम्बः । रघुकुलकैरवचन्द्रः पायादायासतो रामः॥ भद्राय भूयाद्भवतां श्रीरामो भक्तिभावितः । स्मृतेरुज्जृम्भते यस्य पदवी सुरदुर्लभा॥ नत्वा श्रीनरसिंहपण्डितपितुः पादारविन्दद्वयं मातुश्चापि महालसेत्यभिधया विख्यातकीर्तेः क्षितौ । श्रीरामेश्वरसीतयोः सुमनसोर्गुर्वोरगर्वा१ यथा- बुद्धि श्रीनिषधेन्द्रकाव्यविवृतिं निर्माति नारायणः ॥ प्रणम्य शंकरं सोममनन्तं श्रीपतिं समम् । कुर्वे नाम्ना नैषधीयप्रकाशं २सुहृदां मुदे ॥ चिकीर्षितस्य ग्रन्थस्य निर्विघ्नसमाप्त्यर्थ शिष्टाचारपरिप्राप्तम् 'आशीर्नमस्क्रिया वस्तुनिर्देशो चापि तन्मुखम्' इति मङ्गलाचरणं कर्तव्यमिति ग्रन्थकृच्छ्रीहर्षनामा कविर्गूडं ३सबीजरघुनाथाभीष्टदेवतानमस्काररूपं मङ्गलमाचरति । ४अन्ये तु 'विशिष्टवस्तुनिर्देशलक्षणं मङ्गलम्' इत्याहुः- निपीय यस्य क्षितिरक्षिणः कथास्तथाद्रियन्ते न बुधाः सुधामपि । नलः सितच्छत्रितकीर्तिमण्डलः स राशिरासीन्महसांमहोज्ज्वलः १ निपीयेति ॥ अत्र पुण्यश्लोकनलरूपविशिष्टवस्तुनिर्देशेन निर्विघ्नग्रन्थसमाप्तिरित्यभिप्रायेणाह-स नल आसीत् ५इति । पृथ्वादीनां स्मरणमपि सकलाभीष्टहेतुः, किं १ 'अगुर्वीम्' इति पाठान्तरे विवृतिविशेषणम् । २ 'सुहृदो' इति पाठः। ३ 'सबीजम्' इति पाठः । ४ क्वचित 'निपीयेति' इत्युत्तरत्रास्य पाठः । ५ ‘इत्यन्वयः' इति पाठः ।