धर्मराजेति ॥ तैर्धर्मराजसलिलेशहुताशैर्यमवरुणानलैः चेतसा कृत्वा निभृतं गुप्तमेतद्वक्ष्यमाणमचिन्ति
विचारितम् । किंभूतैः :-जगतः सम्यक्पालनाल्लोकस्य प्राणतां
श्रितं जीववत्प्रियम् । अथ च प्राणाख्यवायुभूतं वा अमुं प्राप्य यथासंख्यं हृष्टचलविस्तृततापैः
जगत्प्रियत्वाद्धर्मराजत्वाद्यमो दृष्टः, वरुणोऽपि सलिलेशत्वाद्धर्षवशादेव
चञ्चलः, वह्निरपि हुताशत्वाद्धर्षवशादेव विस्तृततापः परिपुष्टो जात इत्यर्थः । असूनां
प्राप्तौ यमो हृष्यति लोकप्राणापहारित्वात् । वायूनां प्राप्ती जलात्मकत्वान्मेघरूपत्वाच्च
वरुणश्चञ्चलो भवति । तथा वायूनां प्राप्तौ वह्निरुदचिर्भवति । वचनभङ्ग्या यमः क्रुद्धोऽभूत्,
वरुणोऽपि चिन्तावशाञ्चञ्चलोऽभूत्, वह्निरपि चिन्तावशादतिसंतप्तोऽभूदिति भावः
यमचिन्तामाह-
नैव नः प्रियतमोभयथासौ यद्यमुं न वृणुते वृणुते वा।
एकतो हि धिगमूमगुणज्ञामन्यतः कथमदःप्रतिलम्भः ॥ ६९ ॥
नेति ॥ असौ भैमी यदि अमुं नलं न वृणुते, वाथवा वृणुते उभयथापि वरणेऽवरणे च नोऽस्माकं प्रियतमा प्राणेश्वरी पत्नी हितकारिणी च नैव भवेत् । कुतः-हि यस्मादेकतोऽवरणपक्षे अमूं भैमीमगुणशां धिक् । मत्तो नलगुणाधिक्यं न जानाति सा कथं वरणीया । अन्यतो वरणपक्षे नलगुणाधिक्यज्ञानेन वृते नले अदःप्रतिलम्भः अमुष्या लाभो मम कथम् । उभयथापि न प्रियतमेति यमेन धर्मप्रधाना चिन्ता कृता । एकतः, अन्यतः, सप्तम्यर्थे तसिः[१]॥
वरुणचिन्तामाह-
मां वरिष्यति तदा यदि मतो वेद नेयमियदस्य महत्त्वम् ।
ईदृशी च कथमाकलयित्री मद्विशेषमपरान्नृपपुत्री ॥ ७० ॥
मामिति ॥ इयं भैमी मां तदा वरिष्यति यदि मत्तः सकाशादियदस्य महत्त्वं माहात्म्यं न वेद न जानाति न त्वन्यथा । ईदृशी च मत्तो नलस्य विशेषमजानानैव चेद्राजपुत्री तर्हि अपरादन्यस्मात्सजातीयाद्विजातीयाद्वा सकाशात् मद्विशेषं ममाधिक्यं कथमाकलयित्री ज्ञास्यति, अपि तु तदपि न ज्ञास्यतीति । उभयथास्या अलाभ इति वरुणेन चञ्चलं चिन्तितम् । मत्तो नले विशेषापरिज्ञानवदन्यस्मान्ममापि विशेषापरिज्ञानान्न मामपि वरिष्यतीति भाव इति वा[२]॥
वह्निचिन्तामाह-
नैषधे बत वृते दमयनया व्रीडितो नहि बहिर्भवितास्मि ।
स्वां गृहेऽपि वनितां कथमास्यं ह्रीनिमीलि खलु दर्शयिताहे॥७१॥
नैषध इति ॥ अहं दमयन्त्या नैषधे वृते सति वीडितः सन् न बहिर्भवितास्मि निर्गन्तास्मि बत खेदे । गृहेऽपि स्वां वनितां आस्यं मुखं कथं दर्शयिताहे दर्शयिष्यामि ।