पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२४१

एतत् पृष्ठम् परिष्कृतम् अस्ति
२२०
नैषधीयचरिते


हि यस्माद् ह्रीनिमीलि लज्जासंकुचितम् । गृहे स्वस्त्रीभयम्, बहिर्लोकदर्शनभयम्, उभयथा कष्टमिति वह्निना संतापेन चिन्तितम् । दर्शयिताहे, 'णिचश्च' इत्यात्मनेपदे बु[१]॥ द्ध्यर्थत्वादणौ कर्तुणौ कर्मत्वम् [२]

  इत्यवेत्य मनसात्मविधेयं किंचन त्रिविबुधी बुबुधे न।

  नाकनायकमपास्य तमेकं सा स्म पश्यति परस्परमास्यम् ॥७२॥

 इतीति ॥ सा त्रिविबुधी.देवत्रयी मनसा इति पूर्वोक्तमवेत्याकलय्य किंचन आत्मविधेयं किमपि स्वीयं कार्यं न बुबुधे ज्ञातवती । किं तु तमेकं नाकनायकमिन्द्रमपास्य विहाय परस्परमास्यं वदनं पश्यति स्म । किंकर्तव्यतामूढाभूदित्यर्थः। 'आत्मविशेषम्' इति पाठे नलापेक्षया आत्मनो न्यूनत्वरूपं विशेषं मनसा विचिन्त्य किंचन न बुबुध इत्य[३]र्थः॥

  किं विधेयमधुनेति विमुग्धं स्वानुगाननमवेक्ष्य ऋभुक्षाः ।

  शंसति स्म कपटे पटुरुच्चैर्वञ्चनं समभिलष्य नलस्य ॥ ७३ ॥

 किमिति ॥ ऋभुक्षा इन्द्रः अधुना किं विधेयमित्यस्फुरणाद्विमुग्धं विशेषेण भ्रान्तं स्वानुगानां यमादीनामाननमवेक्ष्य विलोक्य उच्चैरतितरां कैतवे पटुः कुशलः अत एव नलस्य वञ्चनं प्रतारणं समभिलष्य शंसति स वदति स्म ॥

  सर्वतः कुशलवानसि कञ्चित्त्वं स नैषध इति प्रतिभा नः।

  खासनार्धसुहृदस्त्वयि रेखां वीरसेननृपतेरिव विद्मः ॥ ७४ ॥

 सर्वत इति ॥ त्वं सर्वतः सप्ताङ्गराज्यादौ कुशलवानसि कच्चित्कथय । कश्चित्कामप्रवेदनं स्वाभिप्रायकथनम् । अपरिचितस्य कुशलप्रश्नो न युक्त इत्यत आह-स प्रसिद्धो नैषधस्त्वमिति नोऽस्माकं प्रतिभा आनुमानिकी बुद्धिः । कुत इत्यत आहवयं स्वस्य मम आसनार्धे विषये सुहृदोऽतिमित्रस्य वीरसेननाम्नो नृपतेरिव त्वयि विद्यमानां रेखां शोभा विद्मो जानीमः । वीरसेनतुल्यशोभत्वात्तत्पुत्रस्त्वम् । प्रायेण पितृसदृशः पुत्रो भवति । शोभाम्' इति वा पाठः । 'उपमानोपमानं या भूषणस्यापि भूषणम् । आङ्गश्रीः कथ्यते रेखा चक्षुःपीयूषवर्षिणी॥' इत्यालंकारिकाः[४]

  क्क प्रयास्यसि नलेत्यलमुक्त्वा यात्रयात्र शुभयाजनि यन्नः ।

  तत्तयैव फलसत्वरया वं नावनोर्धमिदमागमितः किम् ॥ ७५ ॥

 क्वेति ॥ हे नल, त्वं क प्रयास्यसि के देशमुद्दिश्य गमिष्यसि इत्युक्त्वा अलं प्रश्नो


 

  1. 'दृशेश्च' इत्यस्यारम्भसामर्थ्यात्सूत्रे बुद्धिपदेन ज्ञानसामान्यस्यैव ग्रहणे सर्वसंमत्यात्र तदप्राप्त्या 'दृशेश्च' 'अभिवादिदृशोरात्मनेपदे वा' इति वार्तिकाभ्यां कर्मत्वं बोध्यम् ।
  2. 'अत्रापि हेतुः' इति साहित्यविद्याधरी
  3. 'अत्र च्छेकानुप्रासभावोदयः' इति साहित्यविद्याधरी
  4. 'अत्र हेतूपमे' इति साहित्यविद्याधरी।