पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२४२

एतत् पृष्ठम् परिष्कृतम् अस्ति
२२१
पञ्चमः सर्गः।

नैव युक्तः। यद्यस्मात् नोऽस्माकमत्र पृथिव्यां मार्गविषये वा कार्यविशेषविषये वा पृथ्वीमार्ग वा उपदिश्य या यात्रा तया शुभया अजनि जातम् । तत् तस्मात् फले सत्वरयोन्मुख्या तयैव यात्रया त्वमिदमध्वनः अर्धं न आगमितः प्रापितः किम् । अपि तु तयैव प्रापितोऽस्मत्कार्यार्थ न तु स्वकार्यार्थवशादत्र त्वमागतोऽसीत्यर्थः । अथ च गन्तारं प्रति व प्रयास्यसीति वक्तुं लोकेऽनुचितम्[१]

  एष नैषध स दण्डभृदेष ज्वालजालजटिलः स हुताशः ।

  यादसां स पतिरेष च शेषं शासितार[२]मधिगच्छ सुराणाम् ॥७६॥

 एष इति ॥ हे नैषध, एष पुरो दृश्यमानः स प्रसिद्धो दण्डभृद्यमः । तथा-एष ज्वालाजालेन जटिलः परीतः स हुताशोऽग्निः । एष स यादसांपतिर्वरुणः। शेषमवशिष्टं च मां सुराणां शासितारमिन्द्रमधिगच्छ त्वं जानीहि । दण्डभृदादिविशेषणमादराय क्षयाय च । 'वह्नेर्द्वयोर्ज्वालकीलौ' इति पुंलिङ्गो ज्वालशब्दः । पूर्ववाक्यत्रये अधिगच्छेति (संबन्धे) वाक्यार्थः कर्म । जटिलः, मत्वर्थ पिच्छादि(त्वादि)ल[३]च् ॥

 अत्रागमने कारणमाह-

  अर्थिनो वयममी समुपेमस्त्वां नलेति फलितार्थमवेहि ।

  अध्वनः क्षणमपास्य च खेदं कुर्महे भवति कार्यनिवेदम् ॥ ७७ ॥

 अर्थिन इति ॥ हे नल, इति त्वं फलितार्थं तात्पर्यमवेहि जानीहि । इति किम्-अमी वयमर्थिनः सन्तः त्वां समुपेमः याचकत्वेन प्राप्ताः स्मः (किल) इति । तर्हि याच्यतामित्यत आह-अध्वनो जातं खेदं क्षणमपास्य भवति भवत्समीपे कार्यनिवेदं प्रयोजनज्ञापनं च इदानीमेव कुर्महे ॥

  ईदृशीं गिरमुदीर्य बिडौजा जोषमास न विशिष्य बभाषे ।

  नात्र चित्रमभिधाकुशलावे शैशवावधिगुरुर्गुरुरस्य ॥ ७८ ॥

 ईदृशीमिति ॥ बिडौजा इन्द्र ईदृशीं पूर्वोक्तां गिरमुदीर्योक्त्वा जोषं तूष्णीमास बभूव, परं विशिष्य न बभाषे । भैमीवरणार्थमागतानामस्माकं दूत्यं कुर्विति विविच्य प्रकटं नावोचत् । निषेधभियेति भावः। एतदेव नलवञ्चनं शेयम् । यत्र ईदृशेऽभिधाकुशलत्वे वचनकौशलविषये चित्रमाश्चर्य न । कुतः-यतः गुरुङ्घहस्पतिर्यस्य शैशवमवधिर्यथा भवति तथा शैशवमारभ्य गुरुः शिक्षकः, स एवं वदतीति किमाश्चर्यमित्यर्थः । 'आस' इति 'अस गतिदीप्त्यादानेषु तेन न काप्युपपत्तिः । ईदृशीम् , 'त्यदादिषु-' इति कञि 'टिड्ढा-' इति ङीप् [४]


 

  1. 'अत्र काव्यलिङ्गम्' इति साहित्यविद्याधरी।
  2. 'अवगच्छ' इति जीवातुसंमतः पाठः ।
  3. 'अत्र परिकरः' इति साहित्यविद्याधरी
  4. 'अत्र च्छेकानुप्रासः काव्यलिङ्गमुत्प्रेक्षा' इति साहित्यविद्याधरी।