पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२४५

एतत् पृष्ठम् परिष्कृतम् अस्ति
२२४
नैषधीयचरिते

तामपि लम्भितेन प्रापितेन । प्रियवचनाद्यवादयित्वैव झटित्यर्थिने देयं ,अन्यथा पातकं स्यादिति भावः । अर्जति, 'अर्ज अर्जने' भ्वादिः, 'अर्जक् अर्जने' चुरादिः॥

  यत्प्रदेयमुपनीय वदान्यैर्दीयते सलिलमर्थिजनाय ।

  सार्थनोक्तिविफलावविशङ्कात्रासमूर्छदपमृत्युचिकित्सा ॥ ४५ ॥  

 यदिति ॥ वदान्यैर्बहुप्रदैः प्रदेयं दातव्यं वस्तु उपनीय समीपे संस्थाप्य अर्थिजनाय यत्सलिलं दीयते देयसंकल्पार्थमुदकमर्थिहस्ते प्रक्षिप्यते सा सलिलदानरूपा क्रिया अर्थनोक्तिर्याचनवचनं तस्य विफलत्वविशङ्का वैफल्ये विशङ्का तया जातस्त्रासस्तर्कजन्यं भयं तेन मूर्छन्नतिशयेन वर्धमानोपमृत्युरकालमरणं तस्य चिकित्सा प्रतिक्रिया । सलिलदानेन याच्यासाफल्यनिश्चयात् 'भरणे यानि चिह्नानि तानि चिह्नानि याचके' इति वचनप्रमाणको याच्आवैफल्यशङ्काजन्योऽपमृत्युः शाम्यतीत्यर्थः। मूर्छतोपमृत्युः सलिलप्रक्षेपेण शाम्यति । अर्थिन्युपस्थिते दानविधिसिद्धये जलानयनविलम्बोऽपि न कर्तव्य इति [१]भावः॥

  अर्थिने न तृणवद्धनमात्रं किं तु जीवनमपि प्रतिपाद्यम् ।

  एवमाह कुशवजलदापी द्रव्यदानविधिरुक्तिविदग्धः ॥ ६ ॥

 अर्थिन इति ॥ 'कुशवत्सलिलोपेतं दानं संकल्पपूर्वकम्' इति वचनादर्भसहितं जलं दात्रार्थिने दापयतीति दर्भसहितजलदाने दातारं प्रयोजयतीति कुशवजलदापी उक्तिविदग्धः श्लेषोक्तिचतुरश्च द्रव्यदानविधिर्धनदानप्रकारस्य ज्ञापकं यच्छास्त्रं स एवमाह ब्रूते । एवं किम्-दात्रा अथिने तृणवत्तृणमिव धनमानं केवलं धनं न प्रतिपाद्यभभिलाषमकृत्वा न देयं, किं तु जीवनमपि प्राणा अपि तृणवद्देयाः । तृणदान इव प्राणदानेऽपि कोऽपि विचारो न कार्यः । अथ च तृणं दर्भस्तद्युक्तं केवलं धनं न देयम् । किं तु जीवनमपि उदकमपि देयमिति ब्रूते । अत एवोक्तिविदग्धः । अथिने प्राणा अपि तृणवद्देयाः किमन्यदिति भावः[२]

  पङ्कसंकरविहितमहै न श्रियः कमलमाश्रयणाय ।

  अर्थिपाणिकमलं विमलं तवासवेश्म विदधीत सुधीस्तत् ॥ ७॥

 पङ्केति ॥ पङ्कस्य संकरेण संबन्धेन विहितं निन्दितं कमलं श्रियो लक्ष्म्याः संपदश्च आश्रयणायाह योग्यं न भवति । पङ्किलस्थानं केनापि नाश्रीयते, अथ चान्यदपि पातकसंबन्धनिन्दितं स्थानमाश्रययोग्यं न भवति । तत्तस्मात्सुधीविद्वान्विमलं मलपङ्क(वर्जितम्) पातकरहितं चाथिपाणिकमलं तस्या लक्ष्म्याः संपदश्च वासवेश्म वसतिगृहं विद्धीत कुर्यात् । विदुषा संपदार्थभ्यो देयेत्यर्थः । अन्येनापि विदुषोज्ज्वलं देवायतनं क्रिय[३]ते ॥


  1. 'अत्रातिशयोक्तिः' इति साहित्यविद्याधरी।
  2. 'अत्र प्रतीयमानोत्प्रेक्षा समासोक्तिर्वा' इति साहित्यविद्याधरी
  3. 'अत्रातिशयोक्तिरूपके छेकानुप्रासोपि' इति साहित्यविद्याधरी