पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२४७

एतत् पृष्ठम् परिष्कृतम् अस्ति
२२६
नैषधीयचरिते

कमुपेता गमिष्यति हा कष्टम् । इति हेतोः खलु निश्चितमुदयन्ती उदिता दया यस्मिन्नेवंभूतं चित्तं मनो यस्य सोऽर्थिबन्धुर्याचकलक्षणः सुहृदस्य दातुलॊकस्य तद् धनममुं परलोकं परलोकगतं जनं वा निनीषति नेतुमिच्छति । खलु उत्प्रेक्षे वा । अथिने दत्तं परलोके तदधिकमुपतिष्ठत इत्यर्थः । अन्योऽपि बन्धुः पूर्वस्थानं त्यक्त्वा स्थानान्तरं प्रत्येकाकिन एव गच्छतः सुहृदो धनादि तत्स्थान प्रापयति । 'उपेता' 'इण गतौ' लुट् तृज्वा । द्विकर्मकः[१]

  दानपात्रमधमणमिहैकग्राहि कोटिगुणितं दिवि दायि ।

  साधुरेति सुकृतैर्यदि क पारलौकिककुसीदमसीदत ॥ ९२ ॥

 दानेति ॥ इह भुवि एकग्राहि एकत्वसंख्यायुक्तं देयं वस्तु गृह्णाति तच्छीलं दिवि स्वगें कोटिगुणितं कोटिपरिमितं दायि ददाति दास्यति वा एवंशीलं दानपात्रे अधमर्ण याचकलक्षणं ऋणग्रहीतारं सुकृतैः पुण्यैः कृत्वा पारलौकिकं स्वर्लोकभवं कुसीदं वृद्धिजीविकामसीविनश्वरं कर्तुं यदि एति प्राप्नोति जानाति वा तर्हि साधुः सजन एव एति नान्यः । एवंविधं दानपात्रं साधुव्यतिरेकेण केनापि न लभ्यते । लब्धे च तस्मिन्साधुना चिरकालं स्वर्ग स्थीयते। तस्माद्याचकमनोरथः पूरणीय इति भावः । कुसीदमसीदत्कर्तुं साधुर्यद्येति तर्हि सुकृतैः कृत्वा, नान्येन प्रकारेणेति वा । अन्योऽधमो द्विगुणादधिकं न दाति, दानपात्रमधमर्णस्तु वार्धषिक एकगुणं गृहीत्वा कोटिपरिमितं ददाति, ततश्चैतादृशमधमर्ण साधुरेव सुकृतैरेव प्राप्नोति नान्योऽन्येन वोपायेनेति वा । 'कुसीदं वृद्धिजीविका' इत्यमरः । दायि, 'भविष्यति गम्यादयः' इति भविष्यदर्थे णिनिः, 'आवश्यकाधमर्ययोः' इत्याधमण्य वा । तद्योगे 'अकेनोर्भविष्यदाधमर्ययोः' इति षष्ठीनिषेधात्कोटिगुणितमिति कर्मणि द्वितीया । पारलौकिकम् , अध्यात्मादिषु 'लोकोत्तरपदाच्च' इति वक्तव्याहृषि अनुशतिकादिपाठादुभयपदवृद्धिः[२]

  एवमादि स विचिन्त्य मुहूर्त तानवोचत पतिर्निषधानाम् ।

  अर्थिदुर्लभमवाप्य सहर्षान्याच्यमानमुखमुल्लसितश्रि ॥ ९३ ॥

 एवमिति ॥ स निषधानां पतिर्नल एवमादि "जीवितावधि-' इत्येवंप्रभृति मुहूर्तं क्षणं विचिन्त्य विचार्य तानिन्द्रादीनवोचत । किंभूतान्-अर्थिनां दुर्लभं याच्यमानस्य यजमानस्य मुखमुल्लसितश्रि उदितशोभमवाप्य सहर्षान् । याचकैर्दाता विप्रसन्नमुखो दुर्लभः, तं तु प्रसन्नमुखमवाप्य कार्यसिद्धिर्भविष्यतीति सहर्जातमित्य[३]र्थः ॥

  नास्तिजन्यजनकव्यतिभेदः सत्यमनजनितो जनदेहः ।

  वीक्ष्य वः खलु तनूममृतादं दृङ्तिमजनमुपैति सुधायाम ॥९४ ॥


  1. अत्र च्छेकानुप्रासोत्प्रेक्षारूपकसंकरः' इति साहित्यविद्याधरी
  2. 'अत्रातिशयोक्तिव्यतिरेकच्छेकानुप्राससंकरः' इति साहित्यविद्याधरी।
  3. 'अत्र भावोदयालंकारः' इति साहित्यविद्याधरी।