पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२४८

एतत् पृष्ठम् परिष्कृतम् अस्ति
२२७
पञ्चमः सर्गः।

 नास्तीति ॥ जन्यजनकयोः कार्यकारणयोः व्यतिभेदोऽतिशयितो भेदो नास्ति, तथा-जनस्य देहः अद्यत इत्यन्नं भक्ष्यं तेन जनितो जन्यः, इत्युभयमपि सत्यम् । उभयत्रापि सुवर्णजन्यं कुण्डलं दृष्टान्तः । खलु यस्मात् अमृतमत्ति भक्षयतीत्यमृतादं वो युष्माकं तनूं वीक्ष्य मम दृक् सुधायाममृते निमजनमुपैति । अमृतमजनेन यथा सुखं भवति तथा भवदर्शनेनेति । यतो भवन्तोऽमृतभक्षिणः । अत्र पूर्वोक्त एव हेतुः । यद्वा अन्नजन्यो जनदेहः, अ(ना)स्ति जन्यजनकयोभैदो यस्मिन्नसौ नास्तिजन्यजनकभेदः । अन्नादभिन्न एवेति सत्यम् । यस्मादित्यादि पूर्ववत् । यद्वा अन्नजन्यो जनदेहः, अस्ति जन्यजनकयोतिभेदो यस्मिन्नसावस्तिजन्यजनकव्यतिभेदः एवंविधो न भवति किं त्वन्नादभिन्न एव । एतत्सत्यम् । यस्मादित्यादि पूर्ववत् । पूर्वव्याख्यानादेतद्याख्यानं ज्यायः । 'अमृतादाम्' इति पाठे अदित्यस्य हलन्तत्वादापि तनूमित्यस्य विशेषणत्वेन योजना । 'नास्ति-' इति अस्तिक्षीरादि (वदस्ति)ना समासं विधाय पश्चान्नशब्देन समासः। अमृतादम् , अमृतादामिति 'अदोनन्ने' इति वि[१]ट् ॥

  मत्तपः क नु तनु क फलं वा यूयमीक्षणपथं व्रजयेति ।

  ईदृशं परिणमन्ति पुनर्नः पूर्वपूरुषतपांसि जयन्ति ॥ ९५ ॥

 मत्तप इति ॥ तनु अत्यल्पं मम तपः क नु । अदृश्या अपि यूयमीक्षणपथं दृष्टिगोचरं व्रजथेति फलं वा क्व । अपि त्वसंभावितमेतत् । बहुतपोलभ्यस्य फलस्याल्पैनैव तपसा दुर्लभत्वात् । तीदं फलं कथमित्यत आह-ईदृशं भवदर्शनलक्षणं फलं परिणमन्ति जनयन्ति भवदर्शनफलरूपेण वा परिणतानि एतदाकारकाणि नोऽस्माकं पूर्वपूरुषाणां पित्रादीनां तपांसि तदुपार्जितानि पुण्यानि पुनः जयन्ति सर्वोत्कर्षण वर्तन्ते । मत्पूर्वजपुण्यैर्भवदर्शनं जातमिति भावः । जयन्ति सर्वोत्कर्षेण वर्तमानानि तपांसि पुनरीदृशं परिणमन्तीति वा । 'ईदृशान्यपि दद्दन्तीति' क्वचित्पाठः । तत्र फलशब्दस्य विभक्तिविपरिणामेनेदृशान्यपि दुर्लभान्यपि फलानि नोऽस्मभ्यं ददन्ति तानि पूर्वपूरुषतपांसि पुनर्जयन्तीति व्याख्या। परिणमन्ति फलं नः' इति केचित् । तत्र ईदृशं भवद्दर्शनलक्षणं फलं परिणमन्तीति व्याख्या । ददन्ति, 'वा नपुंसकस्य' इति शतुर्नुम् । 'अस्मदो द्वयोश्च' इत्येकत्वे नः, इति षष्ठीचतुर्थीबहुवचनस्य नसादेशः[२]

  प्रत्यतिष्ठिपदिलां खलु देवी कर्म सर्वसहनवतजन्म ।

  यूयमप्यहह पूजनमस्या यनिजैः सृजथ पादपयोजैः ॥ ९६॥

 प्रतीति ॥ सर्वसहनं व्रतं सर्वभारादिसहनलक्षणो नियमः तस्माजन्मोत्पत्तिर्यस्य एवंविधं कर्म व्यापारः सुकृतरूपं कर्तृ इमां भूमि खलु निश्चयेन देवीं प्रत्यतिष्ठिपत् प्रतिष्ठापयामास । खलु, उत्प्रेक्षायां वा । 'सर्वंसहा वसुमती' इत्यभिधानाद्भूमेः सर्वसहत्वम् , ततस्तेन सुकृतेन तस्या देवीत्वं कृतमित्यर्थः । तत्र प्रमाणमाह-अहह


.

  1. 'अत्रार्थान्तरन्यासः' इति साहित्यविद्याधरी।
  2. 'अत्र विषममतिशयोक्तिश्च' इति साहित्यविद्याधरी।