पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२४९

एतत् पृष्ठम् परिष्कृतम् अस्ति
२२८
नैषधीयचरिते

आश्चर्ये । यत् यूयमपि दिङ्नाथा अपि भूमिमस्पृशन्तोऽपि निजैः स्वीयैः पादपयोजैः चरणकमलैः कृत्वा अस्या भूमेः पूजनं सृजथ कुरुथ । भवन्तो यत्पूजां कुर्वन्ति सा देव्येवेति भवद्भिर्देवीत्वेन प्रतिष्ठापितेयम् । सर्वापराधसहोऽपि देवत्वं लभते पूजां च पृथिव्यामागमने किं कारणमिति प्रश्नभावः । प्रत्यतिष्ठिपत्, णौ चङि 'तिष्ठतेरित्' इती[१]कारः

  जीविताव किमप्यधिकं वा यन्मनीषितमितो नरडिम्भात् ।

  तेन वश्चरणमर्चतु सोऽयं ब्रूत वस्तु पुनरस्तु किमीदृक् ॥ ९७ ॥

 जीवितेति ॥ जीवितमवधिमर्यादा यस्य तत् प्राणपर्यन्तं प्राणेभ्योऽप्यधिकं वा यत्किमपि वस्तु इतो मल्लक्षणात् नरडिम्भान्मनुष्यवालकाद्भवद्भिर्मनीषितमभिलषितम् । सोऽयं नृबालो वो युष्माकं चरणं तेन वस्तुनार्चतु पूजयतु । ईदृग्वस्तु किं पुनः अस्तु ब्रूत । वाक्यार्थः कर्म । बालोऽप्यहं प्राणाधिकमपि दास्यामि, याचने शङ्का न कार्या, ईप्सितं च कथनीयमिति भावः । चरणद्वयपूजने सामर्थ्याभावाचरणमित्येकवचनेन विनीतत्वं सूचितम् । अर्चतिवादिः[२]

  एवमुक्तवति वीतविशङ्के वीरसेनतनये विनयेन ।

  वक्रभावविषमामथ शक्रः कार्यकैतवगुरुर्गिरमूचे ॥ ९८ ॥

 एवमिति ॥ अथ कार्यं कैतवगुरुः कपटाचार्यों बृहस्पतिर्वा शक्रः नलं प्रति स्वीयाननलादीनपि प्रति वक्रभावेन वक्रत्वेन वक्रोक्त्या कुटिलाभिप्रायेण च विषमां दुष्टां दुर्बोधां च गिरमूचे । कस्मिन्सति–वीता गंता विरुद्धा विविधा शङ्का वा यस्मात् विरुद्धमने वा किं याचयिष्यन्तीति त्यक्तभये वीरसेनतनये नले विनयेन विनीतत्वेन एवं पूर्वोक्तमुक्तवति स[३]ति ॥

  पाणिपीडनमहं दमयन्याः कामयेमहि महीमिहिकांशो ।

  दूत्यमत्र कुरु नः स्मरभीति निर्जितस्मर चिरस्य निरस्य ॥ ९९॥

 पाणीति ॥ हे मही पृथ्वीं तस्यां मिहिकांशो चन्द्र नल, सर्वे दमयन्त्याः पाणिपीडनं विवाहः, तल्लक्षणं महमुत्सवं कामयेमहि इच्छामः । कान्त्या वशितया च नितरां जितः स्मरो येन तत्संबुद्धिः चिरस्य चिरकालं स्मरागीतिं भयं निरस्य विरहजन्यं दुःखं विहाय अत्र भैमीविवाहोत्सवे विषये नोऽस्माकं दूत्यं कुरु, सा यथास्मान्वृणीते तथा प्रयत्नं कुर्वित्यर्थः । जितस्मरत्वात्तव ततो भीतिर्न । अतिसुन्दरस्य तव देवदूतत्वाभ्रेमी प्रति दूत्यं युक्तं नान्यं प्रति । अथ च स्वीयानपि वञ्चयति-अहं दमयन्त्याः पाणिपीडनं कामये । किंभूतम् -मह उत्सवोऽस्त्यस्मिन्निति महि । नोऽस्माकं चतुर्णा मध्ये मम दूत्यं कुरु न त्वेषाम् । त्वं स्मरभीतिं निरस्य त्यज । यस्मानिर्जितस्मर । निरस्य, अस्यतेर्लोडन्तम् । दूत्यं कुरु चिरस्य विलम्बमिति यावत् , निरस्य त्यजेति वा । दूत्ये वि-


.

  1. 'अत्रोत्प्रेक्षा रूपकं च' इति साहित्यविद्याधरी।
  2. 'अत्र च्छेकानुप्रासो हेतुः' इति साहित्यविद्याधरी ।
  3. अस्य साहित्यविद्याधरी मल्लब्धपुस्तके त्रुटितास्ति ।