पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२५

एतत् पृष्ठम् परिष्कृतम् अस्ति
नैषधीयचरिते

पुनः कीर्तनमिति । किंविशिष्टो नलः । महसां राशिः प्रतापानामाश्रयः । यद्वामहसां तेजस राशिः । सूर्य इव स्थितः । लुप्तोपमा, लुप्तोत्प्रेक्षा वा । एतेन स एव तेजस्वी सूर्यवत् , नान्य इति व्यङ्ग्यम् । स कः । बुधाः सुमतयो यस्य प्रजापालनरूपाः कथा गोष्ठीर्निपीय सारं श्रुत्वा सुधामप्यमृतमपि तथा नाद्रियन्ते । यथा पूर्वममृते यागादिसाध्ये सादरा आसंस्तथा नलकथाश्रवणानन्तरं नेति ततोऽप्यधिका नलकथेति भावः । 'कथाम्' इति पाठः साधीयान् । शर्करादिमधुरद्रव्यादपि सुधायामादर इत्यपेरर्थः । यदीयाः कथा अमृतादपि सरसा इत्यर्थः । एतेन इन्द्रादीनां त्यागेन नले दमयन्त्यनुरागस्यौचिती युक्ता । यद्वा-बुधा देवाः सुधान्धसोऽपि तां नाद्रियन्ते । यत्कथा अमृतादपि मनोहरा इत्यर्थः । यद्वा-वृष्ट्यादिना क्षितिरक्षिणो बुधा देवा यत्कथामाकर्ण्य सुष्ठधाम मनोहरां कान्तिं पाति रक्षति सुधामपाश्चन्द्रस्तस्मिन्नलकथावत्पूर्ववद्वा नाद्रियन्ते । यद्वा-वुधा ज्ञातारः क्षितिरक्षिणोऽन्ये राजानो यज्ञादिनामृतमपि नाद्रियन्त इति । यद्वा--फणामण्डलधारणादिना क्षितिं रक्षन्ति ते क्षितिरक्षिणः शेषतक्षकादयो नागाः 'सुधा भुजंगभोजनम्' इत्यभिधानात्स्वीयं भोजनममृतमपीन्द्रेण रक्षणार्थमर्पितममृतं च नाद्रियन्ते । यतो वुधास्तारतम्यविज्ञातारः । क्षितिरक्षित्वं तक्षकादिषु शेषसाहचर्यादुपचर्यते । एतेन व्याख्यानत्रयेण नलकीर्तेर्लोकत्रयव्यापित्वं द्योत्यते । यद्वा-'क्षितिः, अक्षिणः' इति पदद्वयम् । अक्षो विभीतको निवासोऽस्यास्तीत्यक्षी कलिः । यस्य कथा निपीय स्थितस्य पुरुषस्याक्षिणः कलेः क्षितिर्नाशो भवति । 'क्षि क्षये' इति धातुः । तथा चोक्तम्-'कर्कोटकस्य नागस्य दमयन्त्या नलस्य च । ऋतुपर्णस्य राजर्षेः कीर्तनं कलिनाशनम् ॥' इति । तथा यस्य कथा निपीय बुधाः सुधामपि नाद्रियन्त इति । तथाशब्दः समुच्चयार्थो व्याख्येयः। यद्वा-अक्षाः पाशास्ते क्रीडार्थ यस्य विद्यन्ते सोऽक्षी तस्य द्यूतव्यसनिनोऽपि नलस्य क्षितिः पृथ्वी । राज्यमित्यर्थः । एवंविधस्यापि भूपतित्वमित्याश्चर्यम् । तथाशब्दोऽत्रापि समुच्चयार्थः । यत एवंविधोऽत एव कीर्तेर्मण्डलं यशोमण्डलम् , सितं च तच्छत्रं च सितच्छत्रं श्वेतातपत्रमिवाचरितं कृतं वा लोकत्रयव्याप्तिसमर्थे कीर्तिमण्डलं यस्य येन वा । पुनः किंविशिष्टः-महोज्ज्वलो महैरुत्सवैरुज्ज्वलो दीप्यमानः । एतेनोत्साहयुक्तत्वं तस्य । महान्परमकाष्ठापन्न उज्ज्वलः शृङ्गारो यस्येति वा । यद्वा-महानुज्ज्वलः शृङ्गारो यत्र दमयन्त्याः । एतेन पञ्चनलीमध्ये तस्यैव वृतत्वात् । यद्वा-महसा तेजसा प्रतापेन ज्वलतीति १महोज्ज्वलः । सूर्यपक्षेऽपि 'आदित्याज्जायते वृष्टिः' इति वृष्टिप्रदत्वेन क्षितिरक्षिणः सूर्यस्य कथा निपीय बुधाः सुधामपि चन्द्रे विषये तथा नाद्रियन्ते । तस्य तत्रासामर्थ्यात् । किंभूतः सूर्यः । श्वेतातपत्रीकृतं कीर्तियुक्तं स्तुतियुक्तं विचारयुक्तं वा मण्डलं यस्य । स्तोता श्वेतच्छत्राकारं मण्डलं स्तौति)। महसा तेजसा ज्वलतीति महोज्ज्वलः। 'कीर्तिः प्रतापयशसोर्विस्तारे कर्दमेऽपि च' इति विश्वः । 'महस्तूत्सवतेजसोः', 'शृङ्गारः शुचिरुज्ज्वलः' इत्यमरः । 'ज्ञातृचान्द्रिसुरा बुधाः' इति क्षीरस्वामी । कलिपक्षे 'निपीय स्थितस्य' इत्यध्याहारेणैककर्तृकत्वाल्लयप्साधुः । निपीयेति 'पीङ्


१ 'महसा तेजसा ज्वलति' इति व्याख्यानं तु जकारस्य द्वित्वानुपपत्त्योपेक्ष्यम्' इति जिनराजसूरिविरचितसुखावबोधाख्यव्याख्या 'अनचि च' इति सूत्रास्मरणमूलिका ।