शुद्धेति ॥ शक्रो धनुरिव वक्रोऽजनि क्रूरः कुटिलश्च जातः । किंभूतः शक्रो धनुश्चशुद्धवंजशनितोऽपि विशिष्टकश्यपकुलोत्पन्नोऽपि दृढवेणुजनितोऽपि च । गुणस्य विवेकवीयौदार्यादेः मौाश्च स्थानतामाश्रयतामनुभवश्रयन्नपि आश्रयो भवन्नपि । ऋजुं शुद्धाशयमवक्रं च सपक्षं लोकपालांशसंभूतत्वात् , यज्ञे हविनिाद्वा सपक्षं मित्रं भैमीप्राप्तिरूपसमानसाध्यत्वादपि मित्रं पक्षसहितं च सायकमिव एनं नलं क्षिप्नुः प्रेरयितुकामः प्रतारयितुकामः त्यक्तुकामश्च उत्तमवंशजस्य गुणाश्रयस्य च वक्रत्वं विरुद्धमित्यपिशब्दौ विरोधद्योतको । अथास्त्रियाम् । धनुश्चापौ' इत्यमरोक्तेर्धनुःशब्दः पुंलिङ्गोऽपि । क्षिप्नुः, 'त्रसिगृधि-' इति क्रुः । तद्योगे 'न लोका-' इति न ष[१]ष्ठी ॥
तेन तेन वचसैव मघोनः स स वेद कपटं पटुरुच्चैः ।
आचरतदुचितामथ वाणीमार्जवं हि कुटिलेषु न नीतिः ॥१०३॥
तेनेति ॥ उच्चैरतितरां पटुःप्राज्ञः श्लेषवक्रोक्त्यादिचतुरः स नलो मघोन इन्द्रस्य तेन तेन 'पाणिपीडनमहं-त्वामिहैकमनिवेश्य-' इत्यादिवचसैव कपटं वेद सजानाति स्म । अथ तदुचितां कपटयोग्यां वाचमाचरदूचे । इन्द्रेण तथोक्तेऽपि नलः कथमुक्तवानित्यत आह-हि यस्मात्कुटिलेषु पुरुषेषु आर्जवमकापट्यं नीतिन भवति, किं तु कपटिषु कपटिनैव भवितव्यमिति न्यायः । 'बजन्ति ते मूढधियः पराभवं भवन्ति मायाविषु ये न मायिनः' इति भारव्युक्तेः नलेनापि कपटित्वमङ्गीकृतं युक्तमित्य[२]र्थः ॥
सेयमुच्चतरता दुरितानामन्यजन्मनि मयैव कृतानाम् ।
युष्मदीयमपि या महिमानं जेतुमिच्छति कथापथपारम् ॥१०४॥
सेयमिति ॥ हे देवाः, सेयमन्यजन्मनि जन्मान्तरे मयैव कृतानां 'न तु पूर्वजैः' दुरितानामुञ्चतरता अतितरां श्रेष्ठता । सा का-या कथापथस्य कथनमार्गस्य रतीरं कथापथं पारयति समाप्तिं नयति वागगोचरं युष्मदीयं यौष्माकीणमपि महिमानं माहात्म्यं जेतुमतिकामयितुमिच्छति अभिलष्यति आज्ञारूपं माहात्म्यं अकरणेन विरुद्धभाषणेन च विनाशयितुं वाञ्छति । भवदाज्ञाऽकरणीया दूषणीया चेति बुद्धिरुत्पनेत्यर्थः । भवदाशा सुकृतेन विना कर्तुं न शक्यते, तत्तु मम न विद्यत इति भावः। अथ च मही उत्सववान्यः स चासौ मानोऽहङ्कारश्च भैमीप्राप्त्यहङ्कारं पराभवितुं या वाञ्छति सेयं मयैवान्यजन्मनि कृतानां दुरितानामशुभकर्मणामुच्चतरता सामर्थ्यातिशयः । भवदहङ्कारखण्डने शक्तोऽस्मि तस्माद्धैमीच्छा न कार्या इतीन्द्रकपटोचितो विवक्षितोऽर्थः॥
वित्थ चित्तमखिलस्य न कुर्यां धुर्यकार्यपरिपन्थि तु मौनम् ।
ह्रीर्गिरास्तु वरमस्तु पुनर्मा स्वीकृतैव परवागपरास्ता ॥ १०५ ॥