पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२५३

एतत् पृष्ठम् परिष्कृतम् अस्ति
२३२
नैषधीयचरिते

 उद्भ्रमामीति ॥ योऽहं अस्या भैम्या विरहान्मुहुः पुनरुद्भ्रमाम्युन्मादयुक्तो भवामि पुनः मुहूर्ते क्षणमात्रं मोहं मूर्छां च एमि प्राप्नोमि । अन्याः सप्तावस्था मयानुभूताः, अधुना मूर्छोन्मादलक्षणे अवस्थे अनुभूयेते इत्यर्थः । ईदृगवस्थाद्वययुक्तः सोऽहं वो युष्माकं रहस्यं रक्षितुं गोपायितुमन्तःकरणेऽवधारयितुं कथं प्रभवितास्मि ब्रूत कथयत, अपितु न कथंचिदित्यर्थः । वाक्यार्थः कर्म । भ्रान्तो रहस्यं गोपायितुं समर्थो न भवति, सर्वस्याग्ने कथयति । योऽपि मूर्छालो मूर्खश्च स मनसि रहस्यं धारयितुं न शक्नोति किंतु विस्मरत्येवेति दूत्ययोग्यो न भवामीति भावः॥[१]

  यां मनोरथमयीं हृदि कृत्वा यः श्वसिम्यथ कथं स तदग्रे ।

  भावगुप्तिमविलम्बितुमीशे दुर्जया हि विषया विदुषापि ॥१९॥

 यामिति ॥ योऽहं मनोरथमयीं संकल्परूपां यां भैमीं हृदि कृत्वा श्वसिमि जीवामि सोऽहं दूत्याङ्गीकारादथानन्तरं तदग्रे तस्याः पुरः भावानां स्वेदस्तम्भादिसात्विकानां गुप्तिं गोपनमवलम्बितुं कर्तुं ईशे शक्तोऽस्मि, अपि तु न कथंचित् । हि यस्माद्विदुषापि पण्डितेनापि विषया रूपादयो दुर्जया जेतुमशक्याः। अलीकाया अपि यस्याश्चिन्तनेन जीवामि तस्य मम तस्याः सत्यायाः साक्षात्कारे सात्त्विकभावाः स्फुटमुत्पद्येरन् , ततः कुतो युष्मद्दूत्यचिन्ता' इत्यतोपीयमाज्ञा ममानुचिता इति भावः। 'स्वपिमि' इति पाठे निद्रां करोमि ॥ [२]


  यामिकाननुपमृद्य च मादृक्तां निरीक्षितुमपि क्षमते कः।

  रक्षिलक्षजयचण्डचरित्रे पुंसि विश्वसिति कुत्र कुमारी ॥ ११० ॥

यामि(कानि)ति ॥ च अपरं मादृक् कः पुरुषोऽतिसुन्दरो यामिकान्प्रहरजागरू- काननुपमृद्यानिष्पीड्याविनाश्य अन्तःपुरस्थां तां भैमी निरीक्षितुमपि क्षमते शक्नोति । न कोपीत्यर्थः । वक्तुं तु दूरत इत्यपिशब्दार्थः । सुन्दरस्य यामिकमर्दनेन विनाऽन्तःप्र- वेशो न घटत इत्यर्थः । तर्हि शूरेण त्वया तेऽपि मर्दनीया इत्यत आह-रक्षिणां लक्ष तस्य जयेन चण्डं दारुणं चरित्रं यस्यैवंभूते पुंसि पुरुषे कुमारी बाला मृद्वङ्गी कोमल- हृदया च कुत्र कुतोऽपि विश्वसिति विश्वासं प्राप्नोति, अपितु न कुतोऽपि । एवंविधं चण्डमाकर्ण्य बाला पलायिष्यत एवेत्यतोऽपि मम दूत्यमयुक्तमिति भावः । एवंविधे कुत्र पुंसीति वा । रक्षणार्थं यामोऽस्यास्तीति यामिकः।अस्त्यर्थे उन् , कालवाचित्वाद्भ- वार्थे ठञ्॥[३]

  आदधीचि किल दातृकृतार्घं प्राणमात्रपणसीम यशो यत् ।

  आददे कथमहं प्रियया तत्प्राणतः शतगुणेन पणेन ॥ १११ ॥

 आदधीचीति ॥ प्राणमात्रं जीवितमेव पणसीमा मूल्यावधिर्यस्यैवंविधं यद्यशः आ-


  1. 'अत्र काव्यलिङ्गम्' इति साहित्यविद्याधरी ।
  2. 'अत्रार्थान्तरन्यासः' इति साहित्यविद्याधरी।
  3. 'अत्र काव्यलिङ्गम' इति साहित्यविद्याधरी |