पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२५४

एतत् पृष्ठम् परिष्कृतम् अस्ति
२३३
पञ्चमः सर्गः।

दधीचि दधीचिनामकवदान्यपर्यन्तं दातृभिर्वदान्यैः कृतोऽर्घो मूल्यं यस्य किल श्रूयते यशः प्राणेभ्योऽप्यधिक मूल्यं नार्हति यशोर्थे दधीच्यादिभिः प्राणा एव दत्ताः, न त्व- धिकं किंचित् । अहं तद् यशः प्राणतः प्राणेभ्यः शतगुणेन अतितरामधिकेन प्रियया भैमीलक्षणेन पणेन मूल्येन कथमाददेऽङ्गीकुर्याम्, अपि तु न कथंचित् । यदल्पेन मू- ल्येन लभ्यते तद्वहुना केनापि न गृह्यते, अतो यशोवाञ्छयापि जीवादधिकस्यादेयत्वा- द्भवतां भैमीप्राप्त्यर्थे मया यत्नो न क्रियत एवेति भावः । अतिथीभूय त्वया ब्राह्मणस्य दधीचेरपि प्राणा गृहीताः किं पुनः क्षत्रियस्य ममेति भावः ।।[१]

 अर्थना मयि भवद्भिरिवास्यै कर्तुमर्हति मयापि भवत्सु ।
 भीमजार्थपरयाचनचाटौ यूयमेव गुरवः करणीयाः ॥ ११२ ॥

 अर्थनेति ॥ मयापि भवत्सु अस्यै भैम्यर्थमर्थना याच्ञा कर्तुमर्हति उचिता । कैः कस्मिन्निव-भवद्भिर्मयीव । यथा भवद्भिर्मयि याच्ञा क्रियते तथा मयापि भवत्सु यथा सा मां वरिष्यति तथा भवद्भिरपि कर्तव्यमिति भवन्तो याच्यन्त इत्यर्थः । क्षत्रि- यस्य दातृत्वमेव युक्तम् , न तु याचकत्वमित्यत आह-भीमजारूपो योऽर्थः प्रयोजनं तत्र परं तत्परं याचनचाटु प्रार्थनप्रियवचनं तस्मिन्यूयमेव गुरव उपदेष्टारः करणीयाः। दिक्पाला अपि याचन्ते चेत्तर्हि मादृशां का कथा । भवतां चेदेतद्युक्तं तर्हि ममापि युक्तमेव । गुरूपदिष्टमेव शिष्यः करोति । 'याचनवाचे' इति पाठे प्रार्थनवचनाय । अर्थनाशब्दस्य भाववचनत्वात् , मयेत्यत्रानुक्ते कर्तरि तृतीया 'न[२] लोका-' इति षष्टी- निषेधात् । एवं भवद्भिरित्यत्रापि । कर्तुमित्यर्हतावुपपदे 'शकधृष-' इति तुमुन् । याचनचाटौ भाषितपुंस्कम्[३]

 अर्थिताः प्रथमतो दमयन्तीं यूयमन्वहमुपास्य मया यत् ।
 ह्रीर्न चेव्द्यतियतामपि तद्वः सा ममापि सुतरां न तदस्तु ॥११३॥

 अर्थिता इति ॥ मया यूयम् अन्वहं प्रतिदिनमुपास्य पूजां विधाय प्रथमत आदावेव दमयन्तीं अर्थिता यद्याचिताः। तद्भैमीयाचनं व्यतियतामतिक्रमतामपि मां प्रति याचने भैमीयाचनव्यत्ययं कुर्वतां वो युष्माकं हीश्चेद् नास्ति तत्तर्हि सा लज्जा ममापि सुतरां नास्तु मा भूत् । अतो मयापि भवन्तो भैमीं याचितुं योग्याः 'यत्रोभयोः समो दोषः परिहारोऽपि वा समः । नैकः पर्यनुयोक्तव्यस्तादृगर्थविचारणे ॥' इति न्यायात् । 'अप्रधाने दुहादीनाम्-' इति वचनाप्रधाने कर्मणि 'अर्थिताः' इति निष्ठा । व्यतिय- ताम्,कर्मव्यतिहारे सत्यपि 'न गति-' इति (आत्मनेपद) निषेधात्कर्तरीणः शता[४]


  1. 'अत्र रूपकं विषमं च' इति साहित्यविद्याधरी । 'अत्र परिवृत्तिरलंकारः ‘समन्यूनाधिकानां च यथा विनिमयो भवेत् । साकं समाधिकैर्न्यूनै: परिवृत्तिरसौ मता ॥' इति लक्षणात्' इति जीवातुः
  2. कर्तुमित्यव्ययेन योगादिति भावः । अर्हधातोः कृत्यार्थत्वेन 'कृत्यानां कर्तरि वा' इति षष्ठीविकल्पात्तृतीयेति जीवातौ 'अर्थना प्रार्थना कर्तुमर्हति कर्तव्या' इति ग्रन्थेन ध्वनितमित्यपि कश्चित् । अस्यै इत्यस्य इमां प्राप्तुमित्यर्थे मया इमां प्राप्तुमर्थना इत्यन्वयविवक्षायाम् 'शेषे विभाषा' इति षष्ठीविकल्पात्तृतीयेति परे ।
  3. 'अत्रोपमा' इति साहित्यविद्याधरी । ४ 'अत्र काव्यलिङ्गम्' इति साहित्यविद्याधरी।
  4. 'अत्र काव्यलिङ्गम्' इति साहित्यविद्याधरी