पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२५७

एतत् पृष्ठम् परिष्कृतम् अस्ति
नैषधीयचरिते

 नाक्षराणि पठता किमपाठि प्रस्मृतः[१] किमथवा पठितोऽपि
 इत्थमर्थिचय[२]संशयदोलाखेलनं खलु चकार नकारः ॥ १२१ ॥

 नाक्षराणीति ॥ हे नल, अक्षराणि बाल्ये मातृकां पठता त्वया नकारः न इत्यंयं शब्दो नापाठि किं नाधीतः किम् । अथवा पठितोऽपि नकारः प्रस्मृतो विस्मृतः किम् । नकार इत्थमेवं अर्थिचयस्य याचकसमूहस्य संशय एव दोला द्विकोट्यवलम्बना- त्तस्यां खेलनं क्रीडनं चकार । खलूत्प्रेक्षायां, निश्चये वा । त्वया पूर्वं याचकाभिलाषे नेति कदापि नोक्तमद्यापि न वक्तव्यमिति भावः[३]

 अब्रवीत्तमनलः क्व नलेदं लब्धमुज्झसि यशः शशिकल्पम् ।
 कल्पवृक्षपतिमर्थिनमित्थं नाप कोपि शतमन्युमिहान्यः ॥१२२॥

 अब्रवीदिति ॥ अनलोऽग्निस्तं नलमब्रवीत्–'हे नल, त्वं शशिकल्पं चन्द्रप्रभमिदमेवं- विधं लब्धं करस्थितं यशः क हेतोरुज्झसि त्यजसि । इदं किम्-इह भूलोके अन्यो नलादन्यः कोऽपि कल्पवृक्षस्य पतिं शतमन्युं शतक्रतुमित्थं पूर्वोक्तप्रकारेण अर्थिनं याचकं नाप न प्राप्तवान् । सर्वाभिलाषकरः कल्पवृक्षोऽपि यद्वश(ग):, यश्च शतयज्ञ- कारी, तमिन्द्रं याचकं नल एव प्राप्तवान्नान्य इति यशो न त्याज्यम्' इति । कल्पवृ- क्षोऽपि यन्मनोरथं पूर्णं कर्तुं न समर्थोऽभूत्, त्वं तु समर्थः । शतमन्युरिति पात्रत्वं सूचितम्[४]

 न व्यहन्यत कदापि मुदं यः स्वःसदामुपनयन्नभिलाषः ।
 तत्पदे त्वदभिषेककृतां नः स त्यजावसमतामदमद्य ॥ १२३ ॥

 नेति ॥ अभीष्टसाधनात्स्वःसदां देवानां मुदं हर्षमुपनयञ्जनयन् योऽभिलाषः कदापि केनापि न व्यहन्यत व्यर्थीकृतः । तत्पदे अभिलाषस्थाने[५] त्वदभिषेकं तवाभिषेकं स्वा. भीष्टसाधनाय कृतां कुर्वतां नोऽस्माकं सोभिलाषः मादृशः कामपूरणसमर्थोऽन्यो न विद्यत इत्यसमतामदं असाम्यविषयगर्वं अद्य त्यजतु । कामपूरणे त्वमेव समर्थ इत्यर्थः। व्यहन्यत, कर्मणि तङ् कर्मकर्तरि वा[६]

 अब्रवीदथ यमस्तमहृष्टं वीरसेनकुलदीप तमस्त्वाम् ।
 यत्किमप्यभिबुभूषति तत्किं चन्द्रवंशवसतेः सदृशं ते ॥ १२४ ॥

  1. तिलकव्याख्यायामपि 'प्रस्मृतः' इत्येव पाठोऽङ्गीकृतोऽस्ति । जीवातुसुखावबोधासाहित्यविद्याधरीषु तु 'विस्मृतः' इति पाठ एवाङ्गीकृतः ।
  2. 'अर्थिजन-' इति पाठो जीवातुसंमतः ।
  3. 'अत्र संदेहो रूपकं च' इति साहित्यविद्याधरी । 'अत्रार्थिनामीदृक्संशयासंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिः । सा चोक्तसंशयोत्थापिता इति संकरः' इति जीवातुः
  4. 'अत्र च्छेकानुप्रासोपमा काव्यलिङ्गम्' इति साहित्यविद्याधरी
  5. 'पदे रक्षणे तस्य कल्पवृक्षस्य...अभिषेकम्' इति साहित्यविद्याधरीसंमतस्तु 'तदभिषेककृताम्' इति पाठः प्रतिभाति । पूर्वमस्माकमभिलाष एवाभीष्टपूरकोभूत्, अधुना तस्य स्थाने त्व- मारोपितोसीत्यर्थः' इति सुखावबोधा
  6. अत्र व्यतिरेकः काव्यलिङ्गं च' इति साहित्यविद्याधरी