पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२६०

एतत् पृष्ठम् परिष्कृतम् अस्ति
२३९
पञ्चमः सर्गः

किं तु ताभ्यामङ्गीकृतं यद्वशेन परिपालितम् । एकः पाताले स्थितः, अन्यश्च यद्वशेन न वर्धत इत्यर्थः । स आस्थितस्याङ्गीकृतस्यावितथता सत्यता तल्लक्षणो गुणः सूत्रं च तल्लक्षणः पाशो रज्जुः सत्यवादितागुणः त्वादृशा त्वद्विधेन विदुषा पण्डितेन दुरपासो दुर्लङ्घ्यः । अङ्गीकृतं परिपालयेत्यर्थः । दैत्यपाषाणाभ्यामप्यङ्गीकृतं सत्यं कृतम्, अतस्त्वयाङ्गीकृतं निर्वोढव्यमिति भावः[१]

 प्रेयसी जितसुधांशुमुखश्रीर्या न मुञ्चति दिगन्तगतापि ।
 भङ्गिसंगमकुरङ्गदृर्थे कः कदर्थयति तामपि कीर्तिम् ॥ १३१ ॥

 प्रेयसीति ॥ प्रेयसी प्रियतमा तथा जिता तिरस्कृता उज्ज्वलत्वात्सुधांशुमुखानां सुधांशुश्चन्द्रस्तत्प्रमुखानां तारकादीनां श्रीः शोभा धवलिमा यया जिता चन्द्रप्रारम्भशोभा यया एवंविधा वा, प्राणेश्वरी च जितचन्द्रा मुखश्रीर्यस्या एवंविधा या कीर्तिः दिग- न्तगतापि दिक्प्रान्तगता न मुञ्चति त्यजति तामेवंविधामपि कीर्तिं भङ्गी विनश्वरः संगमो यस्याः सा भङ्गिसंगमा एवंभूता कुरङ्गदृक् मृगाक्षी तस्या अर्थे निमित्तम्, अथ च-कुत्सितो रङ्गो रचना यस्या एवंविधा दृग् यस्याः तत्कृते कः कदर्थयति पीडयति, अपि तु नित्यां कीर्तिं विहायानित्यां प्रेयसी कोपि न वाञ्छति । तस्मात्कीर्तिरेव त्वयाप्युपार्जनीयेति भावः । अथ च -कलिप्रभावाद्भङ्गिसंगमत्वं भैम्याः सूचितम् । अन्यो- ऽपि दुष्टसपत्न्याः कृते गुणवतीं पत्नीं न पीडयति । स्त्रियः कृते कीर्तिर्न त्याज्येत्यर्थः। कुत्सितो दुःखरूपोऽर्थः कदर्थः, कोः कदादेशे अर्शआद्यचि मतुपि वा तद्वतीं करो- तीति णिचि 'णाविष्टवत्' इति टिलोपे मतुब्लोपे वा पीडयतीति तात्पर्यार्थः । एवं कदर्थनात्यर्थतयेत्यादावपि[२]

 यान्वरं प्रति परेर्थयितारस्तेपि यं वयमहो स पुनस्त्वम् ।
 नैव नः खलु मनोरथमात्रं शूर पूरय दिशोपि यशोभिः ॥१३२॥

 यानिति ॥ परे अन्ये पुरुषा यानस्मान्प्रत्युद्दिश्य वरमभीष्टमर्थयितारो याचनशीलाः, वरमुद्दिश्यास्मानर्थयितार इति वा, तेऽपि वयं यं त्वामर्थयितारः । अहो आश्चर्यम् । येऽन्यस्मै वरं दातुं समर्थास्ते वयं तव याचका जाताः। स एवंभूतस्त्वं पुनः शूर दानशूर नल, खलु निश्चितं नोऽस्माकं मनोरथमात्रं केवलं मनोरथं पूरय परिपूर्णे कुर्विति नैव, किं तु इन्द्रादयोऽपि यस्यार्थिनो जाता इति यशोभिः दिशोऽपि दिगन्तानपि पूरय । अस्मन्मनोरथपूरणेन तव महती कीर्तिर्भविष्यतीति भावः । 'यान्परम्' इति पाठे अन्ये यानस्मान्प्रति परं केवलमर्थयितारो न तु दातार इत्यर्थः । अर्थयितारः, ताच्छील्ये तृन्[३]


  1. 'अत्र रूपकमलंकारः' इति साहित्यविद्याधरी
  2. 'अत्र व्यतिरेकसमासोत्तयुपमाविरोधसंकरः' इति साहित्यविद्याधरी
  3. 'अत्र च्छेकानुप्रासः' इति साहित्यविद्याधरी