पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२६२

एतत् पृष्ठम् परिष्कृतम् अस्ति
२४१
पञ्चमः सर्गः

अद्वयमद्वैतं तस्यादेशनात्करणाद् द्रव्याणां वस्तूनां शितिपीतलोहितहरितां कृष्णगौररक्तनीलानां वर्णानां नाम संज्ञा तस्य अन्वयः संवन्धः, तं लुम्पतु विनाशयतु । सर्वस्य त्रिलोकस्य श्वेतीकरणात्कृष्णादिवर्णाभावो भवत्वित्यर्थः । प्रतिज्ञातपरिपालनाल्लोकत्रयेऽपि तवातिनिर्मलं यशःप्रसरिष्यतीति भावः । कर्मप्रतिपादिका श्रुतिरपि इष्टं यागमुद्दिश्य प्रवर्तते । स्वरैरुदात्तादिभिः-अ: अकार आद्यो येषां ते आद्याः स्वरा अचस्तैर्वा -आद्यः प्रथमभोक्तव्यः स्वः स्वर्गः-तेन वानन्ददायिनी । तथा-'चोदनालक्षणोऽर्थो धर्मः' इति वाक्यप्रतिपादितस्य धर्मस्य वेदैकगम्यत्वोक्तेर्धर्मोऽर्थोऽभिधेयं वाक्यार्थो वा यस्याः सा धर्मप्रतिपादिनी । तथा-श्रूयत इति श्रुतिरित्यन्वितमनुगतार्थमाख्यापदं नामपदं यस्या एवंभूता च । अथ च-प्रतिश्रुतिःप्रतिवचनरूपम् 'अस्तु श्रौषट्' इत्यादिवाक्यं सापि इष्टं यागं प्रति भवति, स्वरैरुदात्तादिभिराह्वादिनी च भवति । अथ च-त्व- त्कीर्तिरूपा ब्रह्मप्रतिपादिका श्रुतिः, त्वया कीर्त्यमाना सदा पठ्यमाना वा वेदान्तश्रुतिः श्रवणमननादिद्वारा त्रैलोक्यं पवित्रं कुर्वाणा, यद्वा सत्त्वरजस्तमोरूपेभ्यस्त्रिभ्यो गुणे- भ्यो भवतीति त्रिभ्यो भूरुत्पत्तिर्यस्येति वा त्रिभु । सृष्ट्याद्यवस्थात्रयसहितत्वमिति या वत् । तच्च तद्वनं चातिगहनं संसाराख्यम् । पृथग्वा पदम् । निवृत्तिद्वारा पुनाना शुभ्र- स्यातिनिर्मलस्य निदोषस्य ब्रह्माद्वैतस्योपदेशाद्रव्याणां दृश्यपदार्थानां कृष्णपीतादिनामसंबन्धं लुम्पति । 'वाचारम्भणं विकारो नामधेयम्' इति श्रुतेः 'एकमेवाद्वितीयं ब्रह्म' इत्यादिवचनाद्धटादेर्मिथ्यात्वसाधनान्नामादिविकारं निराकरोतीति ध्वनिः । धर्मार्था- मिति क्वचित् । इष्टम् , 'इषु इच्छायाम् अस्माद्यजेश्च कर्मणि भावे च क्तः । यजेः सं. प्रसारणं षत्वष्टुत्वे च । इष्टिमित्यमरादयः सर्वेऽपि व्याचक्षते 'इष्टिर्यागेच्छयोः' इत्यादिना, तत्तु शिष्टप्रयोगाज्ज्ञातव्यम् । विशेषस्तु ग्रन्थविस्तरभयान्न् लिख्यते । 'इष्टम्', इत्येव पा[१]ठः साधीयानित्यल[२]म् ॥

यं प्रासूत सहस्रपादुदभवत्पादेन खञ्जः कथं
 स च्छायातनयः सुतः किल पितुः सादृश्यमन्विच्छति ।
एतस्योत्तरमद्य नः समजनि त्वतेजसां लङ्घने
 साहस्रैरपि पङ्गुरङ्घ्रीभिरभिव्यक्तीभवन्भानुमान् ॥ १३६ ॥

यमिति ॥ सहस्रपात्सहस्रचरणः अथ च सहस्रकिरणः सूर्यः यं प्रासूत प्रसूतवान् स छायानाम्याः सूर्यपत्न्याः तनयः पुत्रः शनैश्चरः पादेन चरणेन पङ्गुंः कथमुद्भवज्जातः । सहस्रचरणस्य पुत्रेण सहस्रचरणेन भवितव्यम् , अस्य तु नैकोऽपीति । किल यस्मात्सुतः पितुः सादृश्यमन्विच्छति । 'कारणगुणा हि कार्यगुणानारम्भते' इति न्यायात् , तत्तस्माच्छनैश्चरस्यैकोऽपि पादो नास्तीत्येतस्य नोऽस्मदीयप्रश्नस्याद्य भानुमानुत्तरं समजनि जातः । किं कुर्वन् त्वत्तेजसां लङ्घनेऽतिक्रमणविषये साहस्रैः सहस्र-


  1. तिलकजीवात्वोस्तु 'इष्टिम्' इत्येव पाठोऽङ्गीकृतः. ।
  2. 'अत्र श्लेषोतिशयोक्तिः' इति साहित्यविद्याधरी । 'अत्र नीलादिवस्तूनां स्वगुणत्यागेन तत्कीर्तिगुणग्रहणात्तद्गुणालंकारः । 'तद्गुणः स्वगुणत्यागाद न्योत्कृष्टगुणाहृतेः' इति लक्षणात्' इति जीवातुः।