पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२६४

एतत् पृष्ठम् परिष्कृतम् अस्ति
२४३
पष्टः सर्ग
पष्टः सर्गः

दूत्याय दैत्यारिपतेः प्रवृत्तो द्विषां निषेद्धा निषधप्रधानम् ।
स भीमभूमीपतिराजधानीं लक्षीचकाराथ रथस्यदस्य ॥१॥

 दूत्यायेति ॥ अथ दूत्याङ्गीकारादनन्तरं दैत्यारयो देवास्तेषां पतिरिन्द्रस्तस्य दूत्याय दूतकर्मणे प्रवृत्त उद्युक्तः द्विपां निपेद्धा परंतपः स निपधप्रधानं निपधदेशानामधिपः भीमनामको भूमिपती राजा तस्य राजधानी कुण्डिनाख्यां रथस्य स्यदो जवस्तस्य लक्षीचकार । तां प्रति ययावित्यर्थः । चतुर्णी दूत्यकरणे प्रवृत्तावपि प्राधान्यादिन्द्रोपादानम् । इन्द्रायुपकारार्थं प्रवृत्तः स्वयं परंतपश्चेत्यनेन भीमस्य भयानकस्यापि राज्ञो नगरीं प्रति गमने सामर्थ्यं सूचितम् । प्रधानशब्दः क्लीवे । निषेद्धेति तृच्[१]

भैम्या समं नाजगणद्वियोगं स दूतधर्मे स्थिरधीरधीशः ।
पयोधिपाने मुनिरन्तरायं दुर्वारमप्यौर्वमिवौर्वंशेयः ॥ २ ॥

 भैम्येति ॥ स्थिरधीरक्षोभ्यहृदयो दृढबुद्धिः सोधीशो नलः निर्विकारत्वलक्षणे दूतधर्मे विषये दुर्वारमपि दुर्लङ्घ्यमप्यन्तरायं विघ्नभूतं भैम्या समं सार्धं वियोगं नाजगणन्मनसि धृतवान् । कः कमिव-और्वशेयो मुनिरगस्त्यः पयोधिपाने समुद्रपाने दुर्वारमन्तरायरूपमौर्वमिव वडवानलमिव । विकारहेतौ सत्यपि गाम्भीर्यात्स्वीयं स्वयंवरनायकं (कत्वम् ) दूरे त्यक्त्वा निष्कपटेनाशयेन तेषां दूत्यमङ्गीकृतवानिति भावः। दुष्टं वारि येन स दुर्वाः तम् , और्वविशेषणम् । मित्रावरुणयोर्दीक्षितयोर्वशीपुत्रः। उरु बह्वश्नात्युर्वशी तत्पुत्रस्य बहुभोजित्वमेव युक्तमिति च ज्ञेयम्[२]

नलप्रणालीमिलदम्बुजाक्षीसंवादपीयूषपिपासवस्ते ।
तदध्ववीक्षार्थमिवानिमेषा देशस्य तस्याभरणीबभूवुः ॥ ३॥

 नलेति ॥ ते देवा यत्र नलदेवानां संवादोऽभूत्तस्य देशस्याभरणीवभूवुः । तत्रैव स्थिता इत्यर्थः । किंभूताः-नलरूपया प्रणाल्या मिलत आगच्छतः अम्बुजाक्ष्या भैम्याः संवादपीयूषस्य रहस्यकथालक्षणस्यामृतस्य पाने साभिलाषास्तदाकर्णनैकपराः । तथा-तदध्ववीक्षार्थं नलमार्गावलोकनार्थमिवानिमेषा निमेषराहिताः । देवत्वात्सहजमप्यनिमेषत्वं, नलोऽनेन मार्गेण भैमीकथाकथनार्थं कदा समागमिष्यतीति नलमार्गप्रतीक्षार्थत्वेनोत्प्रेक्षितम् । नलप्रतीक्षार्थ तत्रैव तस्थुरित्य[३]र्थः ॥


,

  1. 'अत्र च्छेकानुप्रासोऽलंकारः' 'अत्रेन्द्रवज्रोपेन्द्रवज्रालक्षणमिश्रितत्वादुपजातिछन्दो भवति' इति साहित्यविद्याधरी
  2. 'अत्र च्छेकानुप्रासोपमाहेत्वलंकारसंकरः' इति साहित्यविद्याधरी
  3. अत्र रूपकोत्प्रेक्षालंकारसंकरः' इति साहित्यविद्याधरी