पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२६७

एतत् पृष्ठम् परिष्कृतम् अस्ति
२४३
नैषधीयचारत

मम तस्या अभिलाषोऽनुचित इत्यात्मानं निनिन्देति वा भावः। हेलाम् 'हेलृ अनादरे' इत्यस्मात् 'षिद्भिदादिभ्योऽङ्[१]

  अथोपकार्याममरेन्द्रकार्यात्कक्षासु रक्षाधिकृतैरदृष्टः ।

  भैमीं दिदृक्षुर्बहु दिक्षु चक्षुर्दिशन्नसौ तामविशद्विशङ्कः ॥ ११ ॥

 अथेति ॥ अथ असौ तामुपकार्यां पूर्वदृष्टामुपकारिकामविशत् । किंभूतः-अमराश्वान्ये त्रयः, इन्द्रश्च तेषां प्राधान्यादमरेन्द्रस्य वा कार्याद्धेतोः कार्याद्वरदानाद्वा हेतोः कक्षासु गृहप्रकोष्ठेषु स्थितै रक्षाधिकृतै रक्षकैरन्तर्हितत्वाददृष्टः । अत एव विशङ्को गतभयः । तथा-बहु वारंवार दिक्षु चक्षुर्दिशन्ददानः। यतो भैमी दिदृक्षुर्द्रष्टुकामः । 'कक्षा प्रकोष्ठे हर्म्यादेः' इत्यमरः[२]

  अयं क इत्यन्यनिवारकाणां गिरा विभुर्द्वारि विभुज्य कण्ठम् ।

  दृशं ददौ विस्मयनिस्तरङ्गां स लड़ितायामपि राजसिंहः ॥ १२ ॥

 अयमिति ॥ स विभुः प्रशस्तो राजा राजसिंहो नलः लङ्घितायामतिक्रान्तायामप्युपकार्याद्वार्यन्तर्हितोऽप्यहमेभिर्दष्टः किमिति विस्मयेनाश्चर्येण निस्तरङ्गां निश्चलां ददौ दत्तवान् । किं कृत्वा-कोऽयमित्यन्यनिवारकाणां नलान्यनिषेधकारिणां रक्षकाणां गिरा कृत्वा मामेव किमेते निषेधन्तीति धिया कण्ठं विभुज्य वक्रीकृत्य । सिंह इत्यनेन दृष्टेप्यात्मनि निर्भयत्वं सूच्यते । सिंहोऽप्यवज्ञया ग्रीवां वक्रीकृत्य गर्वेण दृष्टिं पश्चाद्ददाति । राजसिंहः, 'प्रशंसावचनैश्च' इति, 'उपमितम्-' इति वा [३]समासः

  अन्तःपुरान्तः स विलोक्य बालां कांचिन्तसमालब्धुमसंवृतोरुम् ।

  निमीलिताक्षः परया भ्रमन्त्या संघट्टमासाद्य चमच्चकार ॥१३॥

 अन्तरिति ॥ स नलः अन्तःपुरस्यान्तर्मध्ये समालब्धुमुद्वर्तयितुमसंवृतेऽनाच्छादिते ऊरू जङ्घे यस्यास्तां कांचित्स्त्रियं विलोक्य 'न नग्नां स्त्रियमीक्षेत' इति स्मृतेः उत्तमपुरुषत्वाच्च निमीलिताक्षः । बभूवेति शेषः। तथा यदृच्छया भ्रमन्त्या चलन्त्या परया कयाचिस्त्रिया सह निमीलितनयनत्वादेव संघट्ट संपर्कमासाद्य प्राप्य चमच्चकार । सचकितो बभूवेत्यर्थः । एकं संधित्सतोपरं प्रच्यवते, सजुगुप्सो जातः[४]

  अनादिसर्गस्रजि वानुभूता चित्रेषु वा भीमसुता नलेन ।

  जातेव यद्वा जितशम्बरस्य सा शाम्बरीशिल्पमलक्षि दिक्षु॥१४॥

 अनादीति ॥ नलेन सा भैमी दिक्षु प्रतिदिशमलक्षि दृश्यते स्म । ननु चक्षुषाऽसंनि- कृष्टा कथं दृष्टा । न च शुक्तौ रजतमिव तत्रासत्यपि सारोपाद्भासत इति वाच्यम् ।


  1. 'अत्र भावशवलतालंकारः' इति साहित्यविद्याधरी
  2. 'अत्र छेकानुप्रासोलंकारः' इति साहित्यविद्याधरी
  3. 'अत्र जातिश्लेषालंकारसंकरः' इति साहित्यविद्याधरी । स्वभावोक्तिः' इति जीवातुः।
  4. अत्र जातिरलंकारः' इति साहित्यविद्याधरी