पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२६९

एतत् पृष्ठम् परिष्कृतम् अस्ति
२४८
नषधीयचरिते

भैमीनिराशे सतीति वा । हृदि व्याकुले इति वा । एवंभूतः स नलः तत्र उपकार्या- यामलीका तामसत्यरूपां भैमीमवलोक्य क्षणात्तस्मिन्नेव क्षणे विबुद्धो भ्रान्तिरहितः तामपश्यन्ननवलोकयन्व्यषदद्विषादं प्राप । दूत्याङ्गीकाराभ्यां निराशत्वेन शान्तोऽपि विरहः कामेन स्वहस्तं दत्त्वा पुनरुद्दीपितः । विरहजनितया भ्रान्त्या भैमी तेनावलोकिता, भ्रान्त्यपगमे च नावलोकितेत्यनवेक्षणहेतुर्मम बोधो वृथा जातो यत्प्रसादान्मया भैमी विलोकिता, सा भ्रान्तिर्गता कष्टं जातमिति दुःखितोऽभूदित्यर्थः । येन हस्तो दत्तस्तस्य हस्तराहित्यं त्वयुक्तम् । अत्र विपरीतमित्याश्चर्यम् । व्यषदत्, लृदित्त्वादङ् प्राक्सितादड्वयवायेऽपि' इत्यधिकारे 'सदिरपतेः' इति षत्वम् । 'विहस्तव्याकुलौ समौ' इत्यमरः[१]

  प्रियां विकल्पोपहृतां स यावद्दिगीशसंदेशमजल्पदल्पम् ।

  अदृश्यवाग्भीषितभूरिभीरुभवो रवस्तावदचेतयत्तम् ॥ १७ ॥

 प्रियामिति ॥ स नलः विकल्पेन संकल्पेन उपहृतामुपनीतां प्रियां भैमीं प्रति दिगीशानां संदेशमल्पमपि यावदजल्पदवोचत्, तावदेव तस्मिन्नेव क्षणेऽदृश्यस्य तस्यैव वाचा भीषिता भयं प्राप्ता भूरयो बह्वयो भीरवो भयशीला या बालास्ताभ्यो भव उत्पन्नो रवः शब्दस्तं नलमचेतयत्सावधानं चकार । भ्रान्तिवीक्षितां भैमीं प्रति इन्द्रादिभिरेवमुक्तमिति यावद्वक्तुं प्रारब्धम् , तावदनेनैव शब्देन अदृश्यो भूतादिः कोप्यायात इति भीतानां बालानां कलकलेन पुनरभ्रान्तो भूत्वा तूष्णीं बभूवेति भावः । अल्पं संदेशमिति वा । भीषित इति 'भियो हेतुभये षुक्' । 'चिती संज्ञाने' भौवादिकाद्धेतुमण्णिचि अचेतय[२]त् ॥

  पश्यन्स तस्मिन्मरुतापि तन्व्याः स्तनौ परिस्प्रष्टुमिवास्तवस्त्रौ।

  अक्षान्तपक्षान्तमृगाङ्कमास्यं दधार तिर्यग्वलितं विलक्षः ॥ १ ॥

 पश्यन्निति ॥ तस्मिन्नन्तःपुरे अचेतनेन मरुता वायुनापि, अथ च देवेनापि परिस्प्रष्ठुमिव मर्दयितुमिव अस्तवस्त्रौ क्षिप्तवस्त्रौ कस्याश्चित्तन्व्याः स्तनौ पश्यन्नबुद्धिपूर्वकमकस्माद्विलोकयन्परस्त्रीकुचदर्शनाद्विलक्षो विचित्तः सन्नलो मृगाङ्कत्वादेव न क्षान्तः सोढः पक्षान्तमृगाङ्कः पूर्णिमाचन्द्रो येन एवंभूतमास्यं वदनं तिर्यग्वलितं तिरश्चालितं दधार । पराङ्मुखोऽभूदित्यर्थः । नलान्यः कोप्युत्तमः पुरुषो नास्तीति भावः । प्रच्छन्नकामुकसंभोगे चन्द्रस्य तिरोधानं युक्तमिति ध्वन्य[३]ते ॥

  अन्तःपुरे विस्तृतवागुरोपि वालावलीनां वलितैर्गुणौघैः ।

  न कालसारं हरिणं तदक्षिद्वयं प्रभुबन्धुमभून्मनोभूः ॥ १९ ॥

 अन्तरिति ॥ मनोभूः कामः कालः कृष्णः कनीनिकालक्षणः सारः श्रेष्ठभागो यस्य तत् । तथा हरिणमञ्जितः पाण्डुरं तस्य नलस्य अक्षिद्वयं बद्धं सौन्दर्यस्य वशं कर्तुं प्रभुः समर्थो नाभूत् । अथ च नेत्रद्वयमेव हरिणं मृगं धर्तुम् । अरण्ये मृगयुना मृगो धर्तु सुशकः । कामो मृगयुस्तु अन्तःपुरे नगरमध्ये हरिणं धर्तुं न शशाकेत्याश्चर्यम् । किं-


  1. 'अत्र भावोदयालंकारः' इति साहित्यविद्याधरी।
  2. 'अत्र छेकानुप्रासकान्तिभावोदयालंकारसंकरः' इति साहित्यविद्याधरी
  3. 'अत्रोत्प्रेक्षोपमाभावोदयालंकारसंकरः' इति साहित्यविद्याधरी।