पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२७

एतत् पृष्ठम् परिष्कृतम् अस्ति
नैषधीयचरिते

यथाक्रमं योजना । पूर्वश्लोके सुधासितच्छत्र्ने अविशेषेणोक्ते । अत्र तु विशेषेणेत्यपौनरुत्त्यम् । एवमन्येष्वपि पद्येषु विशिष्टार्थप्रतिपादनादपौनरुक्त्यं द्रष्टव्यम् । अथवा शोभमानो न्याय्यो वा द्विजातिवर्णानां दण्डः शासनं यथासंभवं करदानं वा यत्र। तथैकं सितातपत्रं यस्मिंस्तादृशं कृतम् । तथा ज्वलन्त्यौ प्रतापावलिकीर्ती यस्मिन् । यद्वा-प्रतापावलियुक्ता कीर्तिर्यस्मिन् । एवंभूतं मण्डलं राष्ट्रं यस्य सः । एतेन पूर्वश्लोकेन सहापौनरुक्त्यम् । प्रतापस्य दण्डत्वनिरूपणात्संकोचः प्रतीयते सानौचिती प्रतापस्य व्यापकत्वं विना कीर्तेर्व्यापकत्वमनुपपद्यमानं तद्गमयतीति वर्णसाम्यमात्रेण च दण्डत्वनिरूपणात्परिहरणीया । ज्वलदित्युभयविशेषणम् । अन्यथा कीर्तिमण्डलशब्दस्य पूर्वनिपातः स्यात् । यद्वा कीर्ति प्रति प्रतापस्य हेतुत्वादभ्यर्हितत्वात्पूर्वनिपातः१ ॥  कविरिदानीं स्वमौद्धत्यं परिहरंस्तस्यैव गुणानुवर्णने कारणमाह-

पवित्रमत्रातनुते जगद्युगे स्मृता रसक्षालनयेव यत्कथा२ ।
कथं न सा मट्गिरमाविलामपि स्वसेविनीमेव पवित्रयिष्यति ॥३॥

 पवित्रमिति ॥ सा इति संबन्धाद्या इति योज्यम् । या यत्कथा यत्संबन्धिनी कथात्र युगेऽस्मिन्कलियुगे स्मृता स्मर्यमाणा सती जगभ्दुवनमा सामस्त्येन पवित्रं तनुते करोति । सा यत्कथा आविलां सदोषां मन्दिरमपि रसैः शृङ्गारादिभिः क्षालनयेवोज्ज्वलीकरणेनेव कथं न पवित्रयिष्यति । अपि तु पवित्रीकरिष्यत्येव । जगदपेक्षया मद्वचसोऽन्तरङ्गत्वात् । तदेवाह-स्वसेविनीमेव । स्वकथैकतत्परामेवेत्यर्थः । 'वैन्यं पृथुम्-' इत्यादिना स्मरणमाहात्म्यात् । 'कर्कोटकस्य-' इत्यादिना कीर्तनस्यापि माहात्म्यात् । या स्मृता पवित्रयति सा स्मरणपूर्वकं कीर्तिता मद्गिरं कथं न पवित्रयिष्यति । यद्येन सेव्यते तत्सदोषमपि तेन पवित्रीक्रियते । अन्यदपि मलिनं वस्त्रादि रसेनोदकेन या क्षालना तया निर्मलीक्रियते । अपिर्यथापाठमेव वा योज्यः । यद्वा-पवित्रीकरणे कारणद्वयम् । आविलत्वम् , अन्यच्च अन्यसेवाराहित्येन स्वसेवित्वम् । अपिरन्यच्चेत्यर्थे । 'तत्कथा' इत्यपि पाठः साधुः । पवित्रमिति 'पुवः संज्ञायाम्' इति कर्तरीत्रः । इह तु 'पवित्रमिव पवित्रम्' इत्युपचारात् । क्षालनयेति क्षालेश्चुरादेः 'ण्यासश्रन्थो-' इति युच् । योरनः । क्षालनयेवेति 'इवेन [नित्य] समासो विभक्त्यलोपश्च' इति द्वौ ॥

 द्वितीयश्लोके तस्य गुणाभ्दुतत्वमुक्तम् । तदेवाह-

अधीतिबोधाचरणप्रचारणैर्दशाश्चतस्रः प्रणयन्नुपाधिभिः ।
चतुर्दशत्वं कृतवान्कुतः स्वयं न वेद्मि विद्यासु चतुर्दशस्वयम् ॥४॥

अधीतीति ॥ अयं नलः स्वयमात्मना चतुर्दशसु विद्यासु । अधीतिबोधाचरणप्रचारणैः। अधीतिरध्ययनम् , बोधोऽर्थज्ञानम्, आचरणं कर्मानुष्ठानम्, प्रचारणमध्यापनम् ,


 १ 'अत्र व्यतिरेकोऽलंकारः । अन्यच्च यथासंख्यालंकारः । अत्र सुवर्णदण्डसितच्छन्ने उक्ते पश्चात्तेनैव क्रमेण प्रतापावलिकीर्तिमण्डले निर्दिष्ट इति । अनयोः संकर इति साहित्यविद्याधरी । २ 'तत्कथा' इति साहित्यविद्याधरी। ३ 'नहि तत्कथां विहायान्यन्मद्गीः प्रतिपादयति, इति राजविषयो रत्याख्यो भावोऽभिहितः। अत्रोत्प्रेक्षालंकारः । रसेति श्लिष्टम्' इति साहित्यविद्याधरी ।