पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२७३

एतत् पृष्ठम् परिष्कृतम् अस्ति
२५२
नैषधीयचरिते

कन्दुको मध्येमार्गमदृश्यरूपस्य तस्य लग्नः। कयाचित्तत्रैव संघट्टय बुद्धिपूर्वं करजैर्भिन्नोऽङ्कितः । कयाचन तत्रैव संघट्टय बुद्धिपूर्वमालिङ्गनवशात्कुचकुङ्कुमेनाक्तो म्रक्षितः। एवं ताभिरन्तःपुरसुन्दरीभिः संभुक्तकल्प ईषदूनः संभुक्तो बभूव । ग्राम्यधर्माभावादीषदूनत्वं संभोगस्य । ताभिरिति तृतीयया तासामेव बुद्धिपूर्वकारित्वम् , न तु नलस्येति सूचितम्[१]

  छायामयः प्रैक्षि कयापि हारे निजे स गच्छन्नथ नेक्ष्यमाणः।

  तञ्चिन्तयान्तर्निरचायि चारु स्वस्यैव तन्व्या हृदयं प्रविष्टः ॥३०॥

 छायेति ॥ कौतुकित्वाददृश्यस्यैव मम प्रतिबिम्बेन भवितव्यमितीच्छावशात्कयापि तन्व्या सुन्दर्या निजे स्वीये हारे छायामयः प्रतिबिम्बरूपः स नलः प्रैक्षि पूर्वमवलोकितः। अथानन्तरं गच्छन् ततः स्थानात्स्थानान्तरं गच्छन् अतो हारे न ईक्ष्यमाणः न दृश्यमानः अधुनैव कश्चित्सुदरो हारे मया दृष्टः क्वेदानी गत इति तञ्चिन्तया नलचिन्तया कृत्वा स नलः स्वस्यैव हृदयं स्वीयमन्तःकरणं प्रविष्टः इति तन्व्या अन्तर्मनसि चारु सम्यङ्गिरचायि निर्धारितः । हृदय एव हारस्य विद्यमानत्वात्सामीप्यात्तत्रैव प्रविष्ट इति निश्चयः कृत इत्यर्थः । प्रतिबिम्बरूपं तमालोक्य विरहपीडिता जातेति भावः[२]

  तच्छायसौन्दर्यनिपीतधैर्याः प्रत्येकमालिङ्गदमू रतीशः।

  रतिप्रतिबन्वितमासु नूनं नामूषु निर्णीतरतिः कथंचित् ॥३१॥

 तदिति ॥ रतीशः कामः हारादौ तच्छायस्य नलप्रतिबिम्बस्य सौन्दर्येण निपीतमपहृतं धैर्य यासां ता अमूः अन्तःपुरसुन्दरीः प्रत्येकं पृथक्पृथगालिङ्गत् । ननु रतीशेन रत्या एवालिङ्गनं युक्तम्, न त्वन्यस्या इत्यत आह-नूनमुत्प्रेक्षते स कामः रतेः प्रतिद्वन्द्वितमास्वतितरां प्रतिस्पर्धिनीषु रतितुल्यास्वभूषु मध्ये कथंचित्केनापि प्रकारेण सौन्दर्यशीलादिना न निर्णीता रतिर्येन एवंभूतो नूनम् । रतेरनिश्चयात्सर्वासामालिङ्ग- नेन रतेरप्यालिङ्गनं भविष्यतीति बुद्ध्येत्यर्थः । नलप्रतिबिम्बदर्शनमात्रेण सर्वा अपि कामपरवशा जाता इति भावः । तस्य छाया 'विभाषा सेना-'इति नपुंसकत्वम् । प्रतिद्वद्वितमासु, 'तसिलादिषु-'इति पुंवत् [३]

  तस्माददृश्यादपि नातिबिभ्युस्तच्छायरूपाहितमोहलोलाः ।

  मन्यन्त एवादृतमन्मथाज्ञाः प्राणानपि स्वान्सुदृशस्तृणानि॥३२॥

तस्मादिति ॥ ताः सुदृशः तरुण्यः अदृश्यादपि तस्मान्नातिविभ्युरतिशयं भयं न प्रापुः । यतः-हारादौ तच्छायस्य तत्प्रतिबिम्बस्य यद्रूपं सौन्दर्यं तेनाहितो जनितो मोहो मदनविकारविलासः, तेन लोलाश्चञ्चला मदनविकारविलासे आसक्ता वा । तत्प्र.

  1. 'अत्रोपमालंकारः' इति साहित्यविद्याधरी।
  2. 'अत्र भावोदयोलंकारः' इति साहित्यविद्याधरी ।
  3. 'अत्र भावशान्त्युत्प्रेक्षालंकारः' इति साहित्यविद्याधरी