पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२७४

एतत् पृष्ठम् परिष्कृतम् अस्ति
२५३
षष्ठः सर्गः।

तिबिम्बदर्शनेन मदनपरवशत्वाददृश्यादपि तस्माद्भयं न प्राप्तमित्यर्थः । एतदपि कुत इत्यत आह-आदृतमन्मथाज्ञाः संमानितकामाज्ञाः सुदृशः स्वान्प्राणांस्तृणान्येव तृणतुल्यानेव मन्यन्ते यतः, अतो मदनपरवशत्वाद्भयं न प्राप्तमिति युक्तम् । यस्य प्राणवाञ्छापि न विद्यते तस्य भयं दुरापास्तमिति भावः । 'लोलश्चलसतृष्णयोः' इत्यमरः[१]

  जागर्ति तच्छायदृशां पुरा यः स्पृष्टे च तस्मिन्विससर्प कम्पः ।

  द्रुते द्रुतं तत्पदशब्दभीत्या स्वहस्तितश्चारुदृशां परं सः ॥ ३३ ॥

 जागर्तीति ॥ तच्छायदृशां नलप्रतिब्म्बावलोकिनीनां चारुदृशां सात्त्विकप्रादुर्भाववशाद्यः कम्पः पुरा जागर्ति अजागः । प्रतिविम्वदर्शनमात्रेण यः कम्पः समुद्भूत् । तस्मिन्नले स्पृष्टे च सति यः कम्पो विससर्प । दर्शनापेक्षया स्पर्शनस्याधिकसात्त्विकजननसामर्थ्याद्दर्शनजन्यकम्पापेक्षया योऽधिको जातः स कम्पः स्पर्शनभयात् द्रुतं शीघ्रं द्रुते पलायिते तस्मिन् अदृश्यस्य तस्य पदशब्दभीत्या चरणशभिया कर्त्र्या पूर्वापेक्षया परम् अतिशयेन स्वहस्तितो दत्तावलम्बनः वृद्धिं प्रापित इत्यर्थः। अथ च परं केवलं स्वहस्तं प्रापितो दत्तावलम्बः कृतः । मदीयोऽयं कम्पो न सात्त्विकभावजनित इत्येवं तया कथित इत्यर्थः । उभयथा तासां दर्शनस्पर्शनजन्यः कम्पः शृङ्गारस्यानुभावः पाश्चात्यो भयानकस्येति परिपाट्या प्रवृद्धोऽभूदिति भावार्थः । स्वहस्तितः, तारकादिः । जागर्ति 'पुरि लुङ् चास्मे' इति भूते लट् [२]

  उल्लास्यतां स्पृष्टनलाङ्गमङ्गं तासां नलच्छायपिबाऽपि दृष्टिः।

  अश्मैव रत्यास्तदनर्ति पत्या छेदेप्यबोधं यदहर्षि रोम ॥ ३४ ॥ उल्लास्यतामिति ॥ रत्याः पत्या कामेन तासामन्तःपुरसुन्दरीणां स्पृष्टं नलाङ्गं येन एवंभूतमङ्गमुल्लास्यतां हर्षवशात्परिपुष्टीक्रियतां नाम । न केवलं तदेव किंतु नलच्छायपिबा नलप्रतिबिम्बपिबा तासां दृष्टिरप्युल्लास्यतां हर्षवशात् प्रसार्यतां नाम । अत्र विषये चित्रं न किं तर्हि छेदे कर्तने कृतेऽपि सति अबोधमचेतनं लोम यदहर्षि हर्षं प्रापितं तत् अश्मैव पाषाण एवानर्ति नर्तितः । अचेतनस्य लोम्नो हर्षणं पाषाणनर्तनतुल्यमित्यर्थः । सत्त्ववशाद्रोमाञ्चोऽभूदिति भावः । उल्लास्यतां, कर्मणि लोट् । उपसर्गानुवृत्तेरनावश्यकत्वात्पिबेति 'पाघ्रा-' इत्यादिना शः [३]

  यस्मिन्नलस्पृष्टकमेत्य हृष्टा भूयोपि तं देशमगान्मृगाक्षी ।

  निपत्य तत्रास्य धरारजस्थे पदे प्रसीदेति शनैरवादीत ॥ ३५ ॥


 यस्मिन्निति ॥ नलसंमुखमागच्छन्ती मृगाक्षी हरिणनेत्रा यस्मिन्देशे अन्यापदेशाद्गच्छतो नलस्य गात्रेण सह स्वगात्रसंघट्टलक्षणं स्पृष्टकाख्यमालिङ्गनमेत्य प्राप्य हृष्टा रोमाञ्चादियुक्ता जाता तं देशं भूयोऽपि पुनरप्यगाज्जगाम । तत्र देशे धरारजःस्थे पृ-


  1. 'अत्र काव्यलिङ्गमलंकारः' इति साहित्यविद्याधरी।
  2. 'अत्र भावोदयोलंकारः' इति साहित्यविद्याधरी ।
  3. 'अत्र काव्यलिङ्गक्रियाविरोधभावोदयोलंकारः' इति साहित्यविद्याधरी । 'निदर्शनालंकारः' इति जीवातुः॥