पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२७५

एतत् पृष्ठम् परिष्कृतम् अस्ति
२५४
नैषधीयचरिते

थ्वीरजासु स्थितेऽस्य नलस्य पादे चरणप्रतिबिम्बे निपत्य नमस्कारं कृत्वा प्रसीदेति, अनुग्रहं मम कुर्विति आकर्णनभीत्या शनैरवादीदवोचत् । नितरां नलाधीना जातेति भावः। 'यद्योषितः संमुखमागताया अन्यापदेशाद्रजतो नरस्य । गात्रेण गात्रं घटते यदेतदालिङ्गनं स्पृष्टकमाहुरार्या-॥ इति कामशास्त्रम् [१]

  भ्रमन्नमुष्यामुपकारिकायामायस्य भैमीविरहात्कशीयान् ।

  असौ मुहुः सौधपरम्पराणां व्यधत विश्रान्तिमधित्यकासु॥३६॥

 भ्रमन्तीति ॥ असौ नलः सौधपरम्पराणां सप्तभूमिकप्रासादपरम्पराणामधित्यका- सूर्ध्वभूमिषु मुहुः पुनःपुनः विश्रान्तिं व्यधत्त कृतवान् । किं कृत्वा-भैमीविरहात्क्रशीयानतितरां कृशो यतः, तस्मादमुष्यामुपकारिकायां भ्रमन् आयस्य बहुश्रमं प्राप्य । श्रमापनोदार्थं क्षणमात्रं तत्र तत्र स्थित्वा ऊर्ध्वगृहान् विशति स्मेत्यर्थः' । 'उपत्यकासु' इति पाठः साधीयान् । उपत्यकानां विश्रान्तियोग्यत्वात् । 'उपाधिभ्यां त्यकन्नासन्नारूढयोः' इत्युभयत्रापि त्यकन् [२]

  उल्लिख्य हंसेन दले नलिन्यास्तस्मै यथादर्शि तथैव भैमी।

  तेनाभिलिख्योपहृतस्वहारा कस्या न दृष्टाजनि विस्मयाय ॥३७॥

 उल्लिख्येति ॥ हंसेन नलिन्या दले पत्रे भैमीमुल्लिख्य लिखित्वा तस्मै नलाय यथा भैम्यदर्शि दर्शिता। तथैव तत्र विश्रान्तेन नलेनाप्यभिलिख्य लिखित्वा उपहृतः कण्ठे- ऽर्पितः स्वहारः स्वीयमुक्ताहारो यस्या एवंभूता चित्ररूपा भैमी दृष्टा सती कस्याः शुद्धान्तसुन्दर्या विस्मयायाश्चर्याय न जाता । तथाभूतां तां दृष्ट्वा, केनेयमत्रातिसुन्दरी लिखिता कण्ठार्पितहारा चेति सर्वा अपि विस्मिता जाता इत्यर्थः। विश्रान्त्यर्थं भैमीं लिखित्वा साक्षाद्भैमीप्राप्तिबुद्धयाऽनन्तरकरणीयसंकल्पवशात्तेन मुक्ताहारार्पणा कृ- तेति भावः[३]

  कौमारगन्धीनि निवारयन्ती वृतानि रोमावलिवेत्रचिह्ना।

  सालिख्य तेनैक्ष्यत यौवनायद्वाःस्थामवस्था परिचतुकामा ॥३८॥

 कौमारेति ॥ तेन-नलेन सा भैमी आलिख्य ऐक्ष्यत दृश्यते स्म । किंभूता-कौमारं शैशवं तस्य गन्धो लेशोऽपि विद्यते येषु तानि वृत्तानि खेलादीनि निवारयन्ती निषेधयन्ती । यतः रोमावलिरेव वेत्रयष्टिश्चिन्हं यस्याः सा । तथा-यौवनीयायां यौवनसंबधिन्यां द्वारि तिष्ठतीति यौवनीयद्वाःस्था तामवस्थामाकारविशेषं परिचेतुकामाऽङ्गीकर्तुकामा । वयःसंधि प्राप्तां लिखित्वा पश्यतिमेत्यर्थः । अन्यापि वेत्रधारिणी कांश्चिनिषेधति, द्वाःस्था च भवति । गन्धिनीति 'अल्पाख्यायाम्' इति गन्धस्येदादेशः[४]


  1. 'अत्र हर्षभावोदयोलंकारः' इति साहित्यविद्याधरी
  2. 'अत्र काव्यलिङ्गमलंकारः' इति साहित्यविद्याधरी
  3. 'अस्य' साहित्यविद्याधरी त्रुटितास्ति ।
  4. 'अत्र रूपकालंकारः' इति साहित्यविद्याधरी।