पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/२७७

एतत् पृष्ठम् परिष्कृतम् अस्ति
२५६
नैषधीयचरिते

घट्टय यस्यै क्षिप्तः, तामप्राप्य अर्धपथेऽर्धमार्ग एव आत्तोऽङ्गीकृतः पातः पतनं येन तम्। तथा-तदङ्गरागेण नलाङ्गरागेण छुरितं भूषितं रूषितं वा । यस्यै क्षिप्तस्तामप्राप्य मध्ये संघट्टयोग्यस्य वस्तुनोऽभावात् , अकस्मात्कथं पतितः, कस्याङ्गरागोऽस्मिंल्लग्न इति साश्चर्या जाता इति भावः । पथोऽर्धमिति 'अर्धं नपुंसकम्' इति समासः, 'ऋक्-' इत्यादिना समासान्तः[१]

  पुंसि स्वभर्तृव्यतिरिक्तभूते भूवाप्यनीक्षानियमव्रतिन्यः ।

  छायासु रूपं भुवि वीक्ष्य तस्य फलं दृशोरानशिरे महिष्यः॥४३॥

पुंसीति ॥ महिप्यो राजपत्न्यः मणिबद्धायां भुवि तत्प्रतिबिम्बेषु केवलायां वा आतपाभावरूपासु छायासु तस्य नलस्य स्वरूपं सौन्दर्य वा वीक्ष्य दृशोर्नेत्रयोः फलं साफल्यमानशिरे प्रापुः । किं कृत्वा-स्वभर्ता भीमः, तस्माव्ध्यतिरिक्तभूते व्यतिरिक्तरूपे पुंसि विषये अनीक्षानवलोकनं तस्यां यो नियमोऽवश्यंभावः तल्लक्षणं यद्रतं तद्विद्यते यासामेवंभूता भूत्वापि सुन्दरवस्त्ववलोकनात्तासां नेत्रसाफल्यं जातम् । प्रतिबिम्बस्य वातपात्भावस्य वा पुरुषत्वाभावात्तदवलोकनेपि व्रतक्षतिर्नाभूदिति भावः[२]

  विलोक्य तच्छायमतर्कि ताभिः पतिं प्रति स्वं वसुधा पिधत्ते ।

  यथा वयं किं मदनं तथैनं त्रिनेत्रनेत्रानलकीलनीलम् ॥ ४४ ॥

 विलोक्येति ॥ ताभिर्महिषीभिः भुवि तच्छायं नलस्य छायां विलोक्य इत्यतर्कि उत्प्रेक्षितम् । इति किम्-यथा वयं स्वं भीमलक्षणं पतिं प्रत्युद्दिश्य मदनं धारयामः, तथा वसुधापि त्रिनेत्रनेत्रानलस्य त्रिलोचनलोचनाग्नेः कीलेन ज्वालेन नीलं श्यामलं भूतमेनं मदनं भीमलक्षणं स्वं पति प्रति धत्ते धारयति किम् । छस्चयाः श्यामत्वत्रिनेत्रेत्यादि विशेषणं युक्तम् । यथा वयं भीमं प्रति मदनं पिदध्महे तेन जावशादन्तर्गूढतया धारयामः, तथा स्वं पतिं प्रति वसुधा मदनं पिधत्ते अन्तर्गूढत्व धारयति किमिति वा। नलोऽतिसुन्दर इति भावः । 'वह्नेर्द्वयोर्ज्वालकीलौ' इत्यमर [३]लवेत्र,

  रूपं प्रतिच्छायिकयोपनीतमालोकि ताभिर्यदिरिचेतु कामम् ।

  तथापि नालोकि तदस्य रूपं हारिद्रभङ्गाय विस्म भिङ्गम् ॥४५॥

 रूपमिति ॥ ताभिर्महिषीभिः प्रतिच्छायिकया प्रतिबिम्बेनोपनीतं रूपं नलस्वरूपं सौन्दर्य वा यदि नाम यद्यपि काममालोकि दृष्टम् , तथापि तदतिप्रसिद्धं अस्य रूपं नालोकि न दृष्टम् । यतः हारिद्रभङ्गाय हरिद्राच्छेदाय सुवर्णच्छेदाय वातिगौरत्वाद्वितीर्णो दत्तो भङ्गः पराजयो येन तत् । छायायां गौरत्वादिवर्णानालोकनादिति भावः । अतिसौन्दर्यं सूचितम् ॥


  1. ’अत्र हेत्वलंकारः' इति साहित्यविद्याधरी
  2. 'अत्र क्रियाविरोधातिशयोक्त्यलंकारः' इति साहित्यविद्याधरी
  3. 'अत्र छेकानुप्रासोपमोत्प्रेक्षालंकारः' इति साहित्यविद्याधरी।